SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 'पगामसिज्जा'सूत्रं सविवरणम् -श्लो० ९८॥] [६०३ 'चतुर्दशभिर्भूतग्रामैः' भूतानां -जीवानां ग्रामाः-समूहास्तैः, ते चेत्थम् -सूक्ष्मा बादराश्चेत्येकेन्द्रिया द्विधा, द्वित्रिचतुरिन्द्रिया इति विकलास्त्रिधा, संज्ञिनोऽसंज्ञिनश्चेति द्विधा पञ्चेन्द्रियाः, सप्तापि पर्याप्तापर्याप्तभेदाच्चतुर्दश । पञ्चदशभिः परमाधार्मिकैः' संक्लिष्टासुरविशेषैस्ते च अम्बा १ ऽम्बरीष २ श्याम ३ शबल ४ रौद्र ५ उपरौद्र ६ काल ७ महाकाल ८ असिपत्र ९ धनुः १० कुम्भ ११ वालुका १२ वैतरणी १३ खरस्वर १४ महाघोषाख्याः १५। 'षोडशभिर्गाथाषोडशकैः' गाथाख्यं षोडशमध्ययनं येषु तानि तथा तैः, सूत्रकृताङ्गाद्यश्रुतस्कन्धाध्ययनैरित्यर्थः । तथा चामूनि - "समओ १ वेयालीयं २ अवसग्गपरिण ३ थीपरिण्णा य ४ । निरयविभत्ती ५ वीरत्थओ ६ कसील( लाण)परिभासा ७॥१॥[ ] विरिअं ८ धम्मो ९ समाही १० मग्गो ११ समोसरणं १२ । अवितहं १३ गंथो १४ जमईअं १५ गाहा १६" ॥[] सप्तदशविधेऽसंयमे' चरणसप्ततौ वक्ष्यमाणसप्तदशविधसंयमप्रतिपक्षरूपे, 'अष्टादशविधेऽब्रह्मणि' व्रताधिकारे वक्ष्यमाणाष्टादशविधब्रह्मचर्यविरूपे, 'एकोनविंशत्या ज्ञाताध्ययनैः' ज्ञाताधर्मकथाङ्गप्रथमश्रुतस्कन्धाध्ययनैः । तानि चामूनि - "उक्खित्तनायं १ संघाडनायं २ अंडनायं ३ कुम्मनायं ४ सेलयनायं ५ तुंबयनायं ६ रोहिणीनायं ७ मल्लीनायं ८ मायंदीनायं ९ चंदिमानायं १० दावद्दवनायं ११ उदगनायं १२ मंडुक्कनायं १३ तेतलीनायं १४ नंदिफलनायं १५ अवरकंकानायं १६ आइण्णनायं १७ सुंसुमानायं १८ पुंडरीअनायं १९" [ ] ___विंशत्याऽसमाधिस्थानैः' समाधिः -चेतसः स्वास्थ्यम् , मोक्षमार्गेऽवस्थितिरित्यर्थः न समाधिरसमाधिस्तस्य स्थानानि -आश्रयास्तैः, तानि चामूनि -द्रुतचारित्वम् १, अप्रमार्जितेऽवस्थानम् २, दुष्प्रमार्जितेऽवस्थानम् ३, अतिरिक्तशय्यासेवनम् ४, अतिरिक्तासनसेवा ५, रत्नाधिकपरिभवनम् ६, स्थविरोपघातः ७, भूतोपघातः ८, तत्क्षणसंज्वलनकोपकरणम् ९, सुदीर्घकोपः १०, परावर्णवदनम् ११, अभीक्ष्णं चौरस्त्वमित्यादिभाषणम् १२, उपशान्ताधिकरणोदीरणम् १३, अकाले स्वाध्यायकरणम् १४, सरजस्कपाणिपादत्वम् १५, रात्र्यादावुच्चैः शब्दकरणम् १६, कलहकरणम् १७, झंझाकरणम् , झंझा -गणभेद: १८, सूरप्रमाणभोजित्वम् १९, अनेषणासमितत्वम् २० । १. कुसीलाण-इति आवश्यकहारिभद्रयां वृत्तौ प० १०८ ॥ D:\new/d-3.pm53rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy