________________
[ धर्मसंग्रहः - तृतीयोऽधिकारः
ध्यातिर्ध्यानं – स्थिराध्यवसानम्, मनस एकाग्रावलम्बनमित्यर्थः, कालतोऽन्तर्मुहूर्त्तमानम्, तच्चतुर्द्धा – तत्रार्त्तं –विषयानुरञ्जितम्, रौद्रं – हिंसाद्यनुरञ्जितम् धर्मात् – क्षान्त्यादिदशविधादनपेतं धर्म्यम्, जिनवचनार्थनिर्णयात्मकमित्यर्थः । शोकं क्लमयतीति निरुक्तात् शुक्लं - नीरञ्जनम् ।
६००]
तत्रार्त्तं चतुर्द्धा –अमनोज्ञानां शब्दादिविषयाणां तदाधारवस्तूनां च रासभादीनां संप्रयोगे तद्विप्रयोगचिन्तनमसंप्रयोगे प्रार्थना च प्रथमम् १, शूलादिरोगसम्भवे तद्विप्रयोगप्रणिधानम्, तद्विप्रयोगसंभवे च तदसंप्रयोगचिन्ता च द्वितीयम् २, इष्टानां शब्दादीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं संयोगाभिलाषश्च तृतीयम् ३, चक्रवत्र्त्यादिविभवप्रार्थनारूपं निदानं चतुर्थम् ४। आर्त्तस्य विलाप १ साश्रुत्व २ दैन्यभाषण ३ शीर्षादिकुट्टनरूपाणि ४ लिङ्गानि १।
रौद्रं च सत्त्वेषु वध-वेध - बन्धन - दहना - ऽङ्कन - मारणादिप्रणिधानं हिंसानुबन्धि १, पिशुनासभ्यासद्भूतघातादिवचनप्रणिधानं मृषानुबन्धि २, क्रोधलोभादेः परद्रव्यहरणचित्तं स्तेयानुबन्धि ३, सर्वाभिशङ्कनपरोपघातपरायणं शब्दादिविषयसाधकद्रव्यसंरक्षणप्रणिधानं विषयसंरक्षणं ४ चेति चतुर्विधम् अस्य चोत्सन्नदोष १ बहुलदोष २ नानाविधदोष ३ मरणदोषा ४ लिङ्गानि २ ।
-
धर्म्यमपि ज्ञानदर्शनचारित्रवैराग्यभावनाभिः कृताभ्यासस्य नयादिभिरतिगहनं न बुध्यते तुच्छमतिना परं सर्वज्ञमतं सत्यमेवेति चिन्तनम् आज्ञाविचयः १ । रागद्वेषकषायाश्रवादिक्रियासु प्रवर्त्तमानानामिहपरलोकयोरपायान् ध्यायेदिति अपायविचयः २ प्रकृत्यादि ४ भेदभिन्नकर्मणः स्वरूपं ध्यायेदिति विपाकविचयः ३ । जिनोक्तषड्द्रव्याणां लक्षण-संस्थाना -ऽऽसनविधान-मानादीनां ध्यानं संस्थानविचयश्च ४ इति चतुर्विधम्, तत्र द्रव्याणां लक्षणं - गत्यादि, संस्थानं–लोकाकाशस्येव धर्माधर्मयोः, जीवानां समचतुरस्रादि, अजीवानां परिमण्डलादि, कालस्य मनुष्यक्षेत्राकृति तथा आसनमाधारः, सर्वेषां लोकाकाशम्, विधानानि – भेदाः, मानानि - आत्मीयप्रमाणानीति, विचयश्च - चिन्तनेन परिचयः, अस्य चागम१ उपदेशा२ ऽऽज्ञा३ निसर्गतो४ यज्जिनोक्तभाव श्रद्धानं तल्लिङ्गम् ३। शुक्लं च - पृथक्त्ववितर्कसविचारम् १, एकत्ववितर्कमविचारम् २, सूक्ष्मक्रियाऽनिवर्त्ति ३, व्युच्छिन्नक्रियाऽप्रतिपाति ४ चेति चतुर्विधम्, तत्र पृथक्त्वेन - एकद्रव्याश्रितोत्पादादिपर्यायाणां भेदेन वितर्को यत्र तत् तथा, विचारः संक्रमस्तेन सहितं ससंक्रममित्यर्थः, ततः कर्मधारयः, संक्रमश्चार्थव्यञ्जनयोगान्तरतः, तत्रार्थो द्रव्यं तस्माद्व्यञ्जने शब्दे ततश्चार्थे इति, एवं योगेष्वपि
D:\new/d-3.pm5\3rd proof