________________
'पगामसिज्जा 'सूत्रं सविवरणम् - श्लो० ९८ ॥]
[ ६०१
त्रिषु संक्रमः । एवमेकत्ववितर्कमविचारं - पर्यायाणामभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा अविचारं चान्यतरस्मिन्नेकयोगे वर्त्तमानम्, संक्रमाभावात्, इमौ भेदौ पूर्वविदः, तृतीयं तु मनोवाग्योगद्वये निरुद्धे सत्यर्द्धनिरुद्धकाययोगस्य भवति सूक्ष्मक्रियमनिवर्त्ति च, चतुर्थं च शैलेश्यां योगाभावाद् व्युच्छिन्नक्रियमप्रतिपाति चानुपरतस्वभावम्, तत्र तृतीये छद्मस्थस्य निश्चलमन इव केवलिनो निश्चलकाय एव ध्यानम्, चतुर्थे च तदभावेऽपि कुलालचक्रभ्रमणवत् पूर्वप्रयोगतो जीवोपयोगसद्भावेन भावमनसो भावाद् भवस्थस्य ध्यानम्, ध्यैशब्दोऽपि चिन्तायां कायनिरोधेऽयोगित्वे चेत्यनेकार्थात् सर्वत्राविरुद्धः, अस्य चावधा१ ऽसंमोहर विवेक३ व्युत्सर्गा४ लिङ्गानि ४।
पञ्चभिः क्रियाभिः–व्यापाररूपाभिस्तत्र कायेन निर्वृत्ता कायिकी, सा च त्रिधा - मिथ्यादृष्टेरविरतसम्यग्दृष्टेश्चाविरतकायिकी अविरतस्य कायिकी उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धनेति समासः । एवमन्यत्रापि षष्ठीसमासो योज्यः । द्वितीया प्रमत्तसंयतस्येन्द्रियनोइन्द्रियविषया दुष्प्रणिहितकायिकी, तृतीया अप्रमत्तसंयतस्य प्रायः सावद्ययोगोप तस्योपरतकायिकीति १। अधिक्रियते आत्मा नरकादिषु येन तदधिकरणम्, तेन निर्वृत्ता आधिकरणिकी तया, सा च द्विधा -चक्र-रथ- पशु - बन्ध-मन्त्र-तन्त्रादिप्रवर्त्तिनी खड्गादिनिवर्त्तनी चेति २। प्रद्वेषो - मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी तया, सापि जीवाजीवविषयेति द्वेधा ३। परितापनं - ताडनादिदुःखं तेन निर्वृत्ता पारितापनिकी तया, सापि स्वदेहपरदेहविषयतया द्विधा । प्राणातिपातक्रियापि स्वपरविषयतया द्वेधा, तत्राद्या निर्वेदात् स्वर्गाद्यर्थं वा गिरिपतनादिना स्वं घ्नतः, द्वितीया मोहक्रोधादिवशात् परं घ्नत इति, तया । काम्यन्ते इति कामाः – शब्दादयो विषयास्ते च ते गुणाश्च २, गुणत्वं चैषां द्रव्याश्रयत्वात् तैः । महाव्रतैः –प्राणातिपातविरमणादिभिस्तेषु प्रतिषिद्धकरणादिनाऽतिचारसम्भवोऽथवा संघट्टन परितापनादिभिः प्राणातिपातादिविषया अतिचारा भावनीयाः । पञ्चभिः समितिभिर्व्याख्यास्यमानाभिः, तत्रादानं - ग्रहणं, निक्षेपणा – विमोचनं, भाण्डमात्रं – सर्वोपकरणम्, मध्यस्थितश्च भाण्डमात्रशब्द उभयत्र सम्बध्यते, तेन भाण्डमात्रस्यादाने निक्षेपणायां च समितिस्तया, तथोच्चारः - पुरीषम्, प्रश्रवणं - मूत्रम्, खेलो - निष्ठीवनम् जल्लो - मलम्, सिंघाणो - नासिकामलम् एतेषां परिष्ठापना - अपुनर्ग्रहणतयाऽभ्यासस्तत्र भवा पारिष्ठापनिकी, सा चासौ समितिश्च तया, शेषं सुगमम् ।
‘षड्भिर्जीवनिकायैः' ' षड्भिर्लेश्याभिः ' तत्र सकलप्रकृतिनिष्यन्दभूतकृष्णादिद्रव्यसाचिव्यात् स्फटिकस्येवात्मनस्तथापरिणामो लेश्या, ताश्च कृष्णाद्याः षट्, तत्स्वरूपं
D:\new/d-3.pm5\3rd proof