________________
'पगामसिज्जा सूत्रं सविवरणम् -श्लो० ९८॥]
[५९७ ऽपरिशुद्धं परिगृहीतं परिभुक्तं वा यन्न परिष्ठापितं कथञ्चित् प्रतिगृहीतमपि, एवमनेन प्रकारेण यो जातोऽतिचारस्तस्य मिथ्या दुष्कृतं पूर्ववत् ।
एवं गोचरातिचारप्रतिक्रमणमभिधाय स्वाध्यायाद्यतिचारप्रतिक्रमणमाह -
"पडिक्कमामि चाउक्कालं सज्झायस्स अकरणयाए उभयोकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिलेहणयाए अप्पमज्जणयाए दुप्पमज्जणयाए अइक्कमे वइक्कमे अइआरे अणायारे जो मे देवसिओ अइआरो कओ तस्स मिच्छा मि दुक्कडं" __व्याख्या प्रतिक्रमामीति पूर्ववत् , कस्य ?-चतुष्कालं -दिवसरजनिप्रथम-चरमप्रहरेष्वित्यर्थः, स्वाध्यायस्य -सूत्रपौरुषीलक्षणस्याकरणतया -अनासेवनया योऽतिचार: कृतस्तस्येति योगः, तथा 'उभयकालं' प्रथमपश्चिमपौरुषीलक्षणं 'भाण्डोपकरणस्य' भाण्डंपात्रादि, उपकरणं -वस्त्रादि, समाहारद्वन्द्वे भाण्डोपकरणम् , तस्य पात्रवस्त्रादेः 'अप्रत्युपेक्षणया' मूलत एव चक्षुषाऽनिरीक्षणेन, 'दुष्प्रत्युपेक्षणया' दुर्निरीक्षणेन, तथा 'अप्रमार्जनया' मूलत एव रजोहरणादिनाऽस्पर्शनया, 'दुष्प्रमार्जनया' अविधिना प्रमार्जनेनेति, तथा 'अतिक्रमे व्यतिक्रमेऽतिचारेऽनाचारे यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति, एतत् प्राग्वत् । नवरमतिक्रमादीनां स्वरूपमिदम् –यथाऽऽधाकर्मनिमन्त्रणे कृते सति तत्प्रतिश्रवणे प्रथमः १, तदर्थं गच्छतो द्वितीयः २, तत्र गृहीते तृतीयः ३, भोजनार्थं कवलग्रहणे सति चतुर्थः ४, एवं प्रतिसेवान्तरेष्वप्यूह्यम् ।
साम्प्रतमेकविधादिभेदेन प्रतिक्रमणं प्रतिपादयन्नाह -
"पडिक्कमामि एगविहे असंजमे । पडि दोहिं बंधणेहिं-रागबंधेणेणं दोसबंधणेणं । प० तिहिं दंडेहिं-मणदंडेणं वयदंडेणं कायदंडेणं । प० तिहिं गुत्तीहिंमणगुत्तीए वयगुत्तीए कायगुत्तीए । प० तिहिं सल्लेहि-मायासल्लेणं निआणसल्लेणं मिच्छादसणसल्लेणं । प० तिहिं गारवेहिं-इड्ढीगारवेणं रसगारवेणं सायागारवेणं । प० तिहिं विराहणाहि-नाणविराहणाए दंसणविराहणाए चरित्तविराहणाए । प० चउहिं कसाएहिं-कोहकसाएणं माणकसाएणं मायाकसाएणं लोभकसाएणं । प० चउहिं सन्नाहि-आहारसन्नाए भयसण्णाए मेहुणसण्णाए परिग्गहसण्णाए । प० चउहिं विगहाहि-इत्थीकहाए भत्तकहाए देसकहाए रायकहाए । प० चउहिं झाणेहिं-अट्टेणं झाणेणं रुद्देणं झाणेणं धम्मेणं झाणेणं सुक्केणं झाणेणं । पडि० पंचहिं किरिआहिंकाइआए अहिगरणिआए पाउसिआए पारिआवणिआए पाणाइवायकिरिआए । प० पंचहिं कामगुणेहिं-सद्देणं रूवेणं गंधेणं रसेणं फासेणं । पडि० पंचहिं महव्वएहिं
D:\new/d-3.pm53rd proof