________________
५९६]
[धर्मसंग्रहः-तृतीयोऽधिकारः गोचरः, गोचरे इव चर्या-भ्रमणं गोचरचर्या तस्याम् , क्व विषये?-भिक्षार्थं चर्या भिक्षाचर्या तस्यां भिक्षाचर्याहेतुभूतायां गोचरचर्यायामित्यर्थः, तथाहि -लाभालाभनिरपेक्षः खल्वदीनचित्तो मुनिरुत्तमाधममध्यमेष्विष्टानिष्टेषु वस्तुषु रागद्वेषावगच्छन् भिक्षामटतीति । कथं पुनस्तस्यामतिचार इत्याह -उद्घाटं -दत्तार्गलमीषत्स्थगितं वा यत् कपाटं तस्योद्घाटनं - सुतरां प्रेरणं तदेवोद्घाटकपाटोद्घाटना तया, इह चाप्रमाजितकपाटोद्घाटनादतिचारः, तथा श्वानवत् सदारकसंघट्टनयेति प्रकटार्थम् , तथा 'मण्डीप्राभृतिकया' प्राभृतिका समयपरिभाषयौदनम् , तंत्र मण्ड्यां-ढक्कनिकायां-भाजनान्तरे वाऽग्रकूरं कृत्वा भिक्षां ददाति सा मण्डीप्राभृतिका तया, तंत्र प्रवर्त्तनादोषोऽतिचारः । 'बलिप्राभृतिकया' प्रथमं स्थाल्याश्चतुर्दिशं वह्नौ वा बलिं क्षिप्त्वा भिक्षां ददाति सा बलिप्राभृतिका तया, जीवविराधनाऽत्रातिचारः । 'स्थापनाप्राभृतिकया' भिक्षाचरार्थं स्थापिता या प्राभृतिका तन्मध्याद् यां भिक्षां ददाति सा स्थापनाप्राभृतिका तया, अत्रान्तरायदोषोऽतिचारः, तथाऽऽधाकर्मादिदोषाणामन्यतमे शङ्किते योऽतिचारः, सहसाकारे-झगिति अकल्पनीये गृहीत इति, अत्र चापरित्यजतोऽविधिना वा परित्यजतोऽतिचारः अनेन प्रकारेण याऽनेषणा-नञोऽत्रेषदर्थत्वात् प्रमादादेषणा कृता तया, प्राणैषणया च-सर्वथाऽप्यविमर्शकत्वात प्रकष्टानेषणया, तथा प्राणा-रसजादयो भोजनेदध्योदनादौ चलितस्फुटककदलीफलाम्रादौ चिरकालीनखारिकादौ वा विराध्यन्ते यस्यां सा प्राणभोजना तया, एवं 'बीजभोजनया' 'हरितभोजनया' तत्र बीजविराधना तिलवन्यादिभोजने सम्भवति, हरितविराधना च क्लिन्नदाल्यादौ रूढाङ्कुरसम्भवात् सम्भवति, तथा पश्चात् -दानानन्तरं कर्म -जलोज्झनादि यस्यां सा पश्चात्कर्मिका तया, पुर:-प्रथमं कर्म यस्यां सा पर:कमिका तया, 'अदृष्टाहतया' अदृष्टोत्क्षेपनिक्षेपपदमानीतयेत्यर्थः, तत्र च दाव्या सत्त्वसंघटनादिसम्भवादतिचारः, 'उदकसंसृष्टाहृतया' उदकसंसृष्टात् स्थानादाहृतया, एवं रजःसंसृष्टाहृतया च, परिशाटनं -दानाय देयवस्तुनो भूमौ छर्दनं तेन निर्वृत्ता पारिशाटनिका तया, 'परिष्ठापन' प्रदानभाजनगतद्रव्यान्तरोज्झनलक्षणं तेन निर्वृत्ता पारिष्ठापनिकी तया, 'ओहासणभिक्खाए'त्ति विशिष्टद्रव्ययाचनं समयपरिभाषया ओहासण त्ति भण्णइ, तत्प्रधाना भिक्षा तया अवभाषणभिक्षया, कियदत्र भणिष्यामो भेदानामेवं बहत्वात् , ते च सर्वेऽपि यस्मादुद्गमोत्पादनैषणास्ववतरन्तीत्यत आह -'जं उग्गमेणं' इत्यादि, यत्किञ्चदशनादि उद्गमेन -आधाकर्मादिना उत्पादनया -धात्र्यादिलक्षणया एषणया -शङ्कितादिलक्षणया
१. P.C. । यत्र-मु० ॥ २. तत्र-L.P.C. नास्ति । तत्थ पवत्तणदोषो इति आवश्यकहारिभद्रयां वृत्तौ प० ५७ ॥ ३. सहसाकारेणवा-झगिति-P. || ४. "णया हेतुभूतया तथा-P. ||
D:\new/d-3.pm5\3rd proof