________________
'पगामसिज्जा ' सूत्रं सविवरणम् - श्लो० ९८ ॥ ]
[ ५९५
कुर्वतोऽतिचारः । ‘आकुञ्चनं' गात्रसंकोचनं तदेवाकुञ्चना तया, 'प्रसारणा' अङ्गानां विक्षेपः तदेव प्रसारणा तया, अत्र च कुर्कुटीदृष्टान्तेनाकाशे पादप्रसारणाकुञ्चने प्रमृज्य कार्ये, तदकरणेऽतिचार इति । षट्पदिकानां – यूकानामविधिना संघट्टना – स्पर्शना तया 'कूजिते ' कासिते तच्च मुखवस्त्रिकां करं वा मुखेऽनाधाय कुर्वतोऽतिचारः, विषमा घर्मवतीत्यादिशय्यादोषोच्चारणं कर्करायितम्, तस्मिन् सत्यार्त्तध्यानजोऽतिचारः, तथा क्षुते जृम्भि वाऽविधिना कृते आमर्षणमामर्षोऽप्रमृज्य करेण स्पर्शनं तस्मिन् सरजस्कामर्षे सह पृथिव्यादिरजसा यद्वस्तु स्पृष्टम्, तत्संस्पर्शे सतीत्यर्थः ।
एवं जाग्रतोऽतिचारसम्भवमधिकृत्योक्तम्, अधुना सुप्तस्योच्यते—'आउलमाउलाए'त्ति आकुलाकुलया –स्त्र्यादिपरिभोगविवाहयुद्धादिसंस्पर्शनरूपनानाप्रकारस्वप्नप्रत्ययया स्वप्ननिमित्तया योऽतिचार इति गम्यते, सा पुनर्मूलगुणोत्तरगुणविषया भवति, अतो भेदेन दर्शयन्नाह —स्त्रीविपर्यासोऽब्रह्मासेवनम् तस्मिन् भवा स्त्रीवैपर्यासिकी तया, स्त्रीदर्शनानुरागतस्तदवलोकनं दृष्टिविपर्यासस्तस्मिन् भवा दृष्टिवैपर्यासिकी तया, एवं मनसाध्युपपातो मनोविपर्यासः तस्मिन् भवा मनोवैपर्यासिकी तया, एवं पानभोजनवैपर्यासिकी रात्रौ पानभोजनपरिभोजनपरिभोग एव तद्विपर्यासः अनया हेतुभूतया य इत्यतिचारमाह, मयेत्यात्मनिर्देशे, दैवसिकोऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति पूर्ववत् । आह - दिवा शयनस्य निषिद्धत्वात् कथं तदतिचारः ?, सत्यम्, इदमेव वचनं ज्ञापयतिअपवादतोऽध्वखेदादौ सुप्यत इति ।
एवं त्वग्वर्त्तनस्थानातिचारप्रतिक्रमणमभिधायेदानीं गोचरातिचारप्रतिक्रमणप्रति
"
D:\new/d-3.pm5\3rd proof
—
पादनायाह -
" पडिक्कमामि गोअरचरिआए भिक्खायरिआए उग्घाडकवाडुग्घाडणयाए साणावच्छादारासंघट्टणयाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणेसणाए पाणभोअणाए बीअभोअणाए हरिअभोअणाए पच्छेकम्मिआए, पुरेकम्मिआए अदीट्ठहडाए दगसंसट्टहडाए रयसंसट्टहडाए पारिसाडणिआए पारिठावणिआए ओहासणभिक्खाए जं उग्गमेणं उप्पायनेसणाए अपरिसुद्धं परिघाइअं (ग्गहियं) परिभुत्तं वा जं न परिट्ठविअं तस्स मिच्छामि दुक्कडं " व्याख्या - प्रतिक्रमामि, गोचरचर्यायां योऽतिचार इति गम्यते तस्येति योग:, गोश्चरणं
१. ना (नता) - मु० ॥ २. °णा (णता) - मु० ॥ ३. शः - इति आवश्यकहारिभद्रयां पाठः ५० ५७ ॥