SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ५९४] [ धर्मसंग्रहः - तृतीयोऽधिकारः प्रवचनमातॄणां – गुप्तित्रयसमितिपञ्चकरूपाणाम्, नवानां ब्रह्मचर्यगुप्तीनां - वसत्यादीनां वक्ष्यमाणस्वरूपाणाम्, दशविधे – दशप्रकारे श्रमणधर्मे वक्ष्यमाणस्वरूपे, ततो गुप्त्यादिषु ये ‘श्रामणाः’ श्रमणसम्बन्धिनो 'योगा' व्यापाराः सम्यक् सेवन श्रद्धानप्ररूपणलक्षणास्तेषां मध्याद्यत् किञ्चित् ‘खण्डितं' देशतो भग्नं, यद्विराधितं सुतरां भग्नम्, , न पुनरेकान्ततोऽभावमापादितम्, तस्य दैवसिकातिचारस्येत्येतावता क्रियाकालमाह, 'मिच्छामि दुक्कडं' इत्यनेन तु तस्यैव निष्ठाकालमाह, मिथ्येति प्रतिक्रमामि दुष्कृतमेतत् - अकर्त्तव्यमेतत्, एतच्चातिचारसूत्रं सामायिकसूत्रानन्तरमतिचारस्मरणार्थम् उच्चारितम्, पुनर्वन्दनकानन्तरं गुरोः स्वातिचारज्ञापनार्थमधीतम्, इह तु प्रतिक्रमणाय, पुरतस्तु पुनरतिचाराशुद्धेर्विमलीकरणार्थमुच्चारयिष्यत इति न पुनरुक्तम् । एवमोघातिचारस्य समासेन प्रतिक्रमणमुक्तम्, साम्प्रतं विभागेनोच्यते, तत्रापि गमनागमनातिचारमाह – " इच्छामि पडिक्कमिउं इरिआवहियाए" इत्यादि, व्याख्यातमिदं प्राक् । इति गमनागमनातिचारप्रतिक्रमणमुक्तम्, अधुना शेषाशेषातिचारप्रतिक्रमणाय मौलं प्रतिक्रमणसूत्रमुच्यते, तत्र चादौ त्वग्वर्त्तनस्थानातिचारप्रतिक्रमणप्रतिपादनायाह - “इच्छामि पडिक्कमिउं पगामसिज्जाए णिगामसिज्जाए संथारा उव्वट्टणाए परिअट्टणाए आउंटणाए पसारणाए छप्पईसंघट्टणाए कुइए कक्कराइए छिए जंभाइए आमोसे ससरक्खामोसे आउलमाउलाए सुअणवत्तिआए इत्थीविप्परिआसिआए दिट्ठीविप्परिआसिआए मणविप्परिआसिआए पाणभोअणविप्परिआसिआए जो मे देवसिओ अइआरो कओ तस्स मिच्छा मि दुक्कडं" व्याख्या – इच्छामि प्रतिक्रमितुमिति प्राग्वत्, कस्य ? इत्याह – 'प्रकामशय्यया' हेतुभूतया, यो मया दैवसिकोऽतिचारः कृतस्तस्येति योग:, अनेन क्रियाकालमाह, 'मिच्छा मि दुक्कडं'ति निष्ठाकालमेवेति भावना, एवं सर्वत्र योजना कार्या । शयनं शय्या, प्रकामं चातुर्यामं शयनं प्रकामशय्या, शेरतेऽस्यां वा शय्या - संस्तारकादिलक्षणा, प्रकामा उत्कटा शय्या संस्तारकोत्तरपट्टादतिरिक्ता प्रावरणमधिकृत्य कल्पत्रयातिरिक्ता वा तया हेतुभूतया, स्वाध्यायाद्यकरणतश्चेहातिचारः । प्रतिदिवस प्रकामशय्यैव निकामशय्योच्यते, तया हेतुभूतया, अत्राप्यतिचारः प्राग्वत्। ‘उद्वर्त्तनं' तत्प्रथमतयाऽन्यपार्श्वेन वर्त्तनं तदेवोद्वर्त्तना तया, 'परिवर्तनं' पुनस्तत्पार्श्वेनैव वर्त्तनं तदेव परिवर्त्तना तया, एवमग्रेऽपि स्वार्थिकष्टाप् बोध्यः, अत्राप्रमृज्य १. संथारा - L.P.C. नास्ति ।। २. तुला - आवश्यकहारिभद्रीया वृत्तिः भा० २ ० ५६ ॥ ३. °ना (नता) - मु० ॥। ४. 'ना ( नता) - मु० ॥ ५. P. C. । स्वार्थिकस्ताप्रत्ययो बोध्यः - मु० ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy