SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 'पगामसिज्जा 'सूत्रं सविवरणम् - श्लो० ९८ ॥ ] [ ५९३ चत्तारि मंगलं – अरहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णत्तो धम्मो मंगलं " मां भवाद् गालयतीति मङ्ग्यते - गम्यते हितमनेनेति वा मङ्गं –धर्मं लातीति वा मङ्गलम्, तत्र चत्वारः पदार्था मङ्गलमिति, के ते ? इत्याह- ' अरहंता०' इत्यादि सुगमम्, अत्र साघुग्रहणादाचार्योपाध्याया गृहीता एव तेषां साधुत्वानपायात्, केवलिप्रज्ञप्तश्च धर्मः श्रुतचारित्ररूपः । एषां च मङ्गलता एभ्य एव हितमङ्गनाद्, अत एव च लोकोत्तमत्वमित्याह, अथवा मङ्गलता चैषां लोकोत्तमत्वात् तथा चाह - "चत्तारि लोगुत्तमा- अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो " चत्वारः पूर्वोक्ताः लोकस्य - भावलोकादेरुत्तमा लोकोत्तमाः, तानाह - ' अरहंता० ' इत्यादि, अर्हन्तो लोकस्य - भावलोकस्योत्तमाः - प्रधानाः, सर्वासां शुभप्रकृतीनामुदये वर्त्तमानत्वात्, सिद्धास्तु क्षेत्रलोकस्योत्तमास्त्रैलोक्यमस्तकस्थत्वात्, साधवस्तु सम्यग्ज्ञानदर्शनचारित्राणि प्रतीत्य भावलोकोत्तमाः, श्रुतधर्मः क्षायोपशमिकभावलोकापेक्षया, चारित्रधर्मस्तु क्षायिकमिश्रभावलोकापेक्षयोत्तमः । लोकोत्तमत्वादेव शरण्यास्तथा चाह, अथवा लोकोत्तमत्वं शरण्यत्वात् तदेवाह "चत्तारि सरणं पवज्जामि - अरिहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपण्णत्तं धम्मं सरणं पवज्जामि " चतुःशरणं प्रपद्ये सांसारिकदुःखत्राणायाश्रयं गच्छामि, भक्ति करोमीत्यर्थः, अग्रे सुगमम्, इत्थं कृतमङ्गलोपचारः प्रतिक्रमणसूत्रमाह -" इच्छामि पडिक्कमिडं० " इत्यादि यावत् तस्स मिच्छा मि दुक्कडं'' ति प्राग् श्राद्धानां प्रत्याख्यानद्वारे व्याख्यातमेव साधूनां च यो भिन्नः पाठः स व्याख्यायते – 'असावगपाउग्गो' इतिस्थाने ' असमणपाउग्गो' इतिपठ्यम्, अश्रमणप्रायोग्यः साधूनामनाचरणीयः, तथा 'चरित्ताचरित्ते, इतिस्थाने 'चरित्ते' इति पठ्यम्, ‘चउण्हं कसायाणम्' इत्यतश्चाग्रे एवं "पंचण्हं महव्वयाणं, छण्हं जीवणिकायाणं, त् पिंडेसणाणं अट्ठण्हं पवयणमाऊणं, नवण्हं बंभचेरगुत्तीणं, दसविहे समणधम्मे, समा जोगाणं जं खंडिअं" इत्यादि अग्रे प्राग्वत् । तत्र पञ्चानां महव्रतानां - प्राणातिपातनिवृत्तिलक्षणानाम्, षण्णां जीवनिकायानां - पृथिवीकायिकादीनाम्, सप्तानां पिण्डैषणानाम् - असंसृष्टादीनां प्राग्व्याख्यातानाम्, सप्तानां पानैषणानां केचित् पठन्ति, अष्टानां १. वा मङ्गलं, (मङ्ग-) धर्मं - मु० ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy