________________
५९२]
[धर्मसंग्रह:-तृतीयोऽधिकारः "क्लीबे वा" इति [नपुंसके भाव क्तः पा० ३-३-११५] क्तस्तेनोपयोगे इत्याद्यर्थो ज्ञेयः । हरित्काय: संघट्टित इत्यादि, अत्र कायः प्राणः शरीरसमूहो वा, षट्पदिकाः संघट्टिताः, स्थानात् स्थानानन्तरंसङ्क्रामिताः, इत्युक्त्वा गुरोरतिचारमालोच्य विशुद्ध्यर्थमिदं पठन्ति – "सव्वस्स वि देवसिअ०" इत्यादि सूत्रमिति दैवसिकप्रतिक्रमणे, रात्रिप्रतिक्रमणे च - ___ "संथाराउट्टण किअ, परिअट्टण किअ, आउंटण किअ, पसारण किअ, छप्पइसंघट्टण किअ, अचक्खुविसय हूओ, संथारापोरिसीतणो विधि भणवो वीसार्यो, कडूथलुं अणपूजई हलाव्युं चलाव्यु , सउणइ स्वप्नांतरि दृष्टिविपर्यास मनोविपर्यास संकल्पकुविकल्पस्खलनादिक अतिचार लागा, मात्रउं अविधि परिठविउं अनेरुं जि कांइ पाप लागुं हुइ ते सवि हुं मनवचनकायाइं करइ मिच्छा मि दुक्कडं"।
व्याख्या -संस्तारके उद्वर्त्तना एकवारमेकपाश्र्वात् पाश्र्वान्तरे भवनं सा कृता १ परिवर्तना पुनः मूलपार्वे भवनम् २, आकुञ्चना पादादीनां संकोचनम् ३, प्रसारणं तेषामेव ४, षट्पदिकानां संघट्टना कृता ५, अचक्षुर्विषये प्रश्रवणम् ६, एषु षट्स्वपि पदेषु क्रिया कृता, इति दण्डकसूत्रमुक्त्वा "सव्वस्स वि राइअ०" इत्यादिदण्डकं पठति, ततश्च ‘पडिक्कमह'त्ति गुरुदत्तप्रायश्चित्ता एव पूर्वोक्तरीत्या साधुप्रतिक्रमणसूत्रं भणन्ति । उक्तं च पञ्चवस्तुके -
"आलोइऊण दोसे, गुरुओ पडिवन्नपायछित्ता य ।
सामाइअपुव्वयं ते, कडंति तओ पडिक्कमणं" ॥१॥[प.व./४६६ ] इति । उपविशनमुद्रा चेत्थम् - "काऊण वामजाणुं , हिट्ठा उ8 च दाहिणं जाणुं ।
सुत्तं भणंति सम्मं, करजुअकयपुत्तिरयहरणा" ॥१॥ [ य.दि./२१ ] इति । अथ साधुप्रतिक्रमणसूत्रविवरणं लिख्यते, तत्र प्रतिक्रमणमिति शब्दार्थः पूर्वमुक्त एव । स च शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव प्रतिकूलं क्रमणं निवर्त्तनमितिस्वरूपः. तच्च द्विधा -यावज्जीवं इत्वरं च तत्राद्यं व्रतादिलक्षणम. इत्वरं दैवसिकादि, तद्विषयास्तु 'पडिसिद्धाणं करणे' इत्यादयः । अत्र चादौ पञ्चमङ्गलादयो वाच्यास्ते च व्याख्यातपूर्वाः । अथ विघ्नविघाताय मङ्गलपूर्वकं प्रतिक्रान्तव्यमतः सूत्रकार एव तदाह -
१. (व्वं) ते-मु०॥
D:\new/d-3.pm5\3rd proof