________________
प्रतिक्रमणविधिः - श्लो० ९८ ॥ ]
[ ५९१
कायोत्सर्गस्था एव सामायिकसूत्रं समकं मनसा पठन्ति, पठित्वाऽतिचारांश्चिन्तयन्तीति । प्रतिक्रमणविधिश्च पूर्वमुक्त एव । यश्च कश्चित् साधुविषयो विशेष:, स [च] यथास्थानं दर्श्यते, तद्यथा –आचार्यो दैवसिकातिचारं द्विगुणं चिन्तयति, यतोऽन्ये हिण्डिता बहुव्यापारास्तावता कालेनैकगुणं चिन्तयन्तीति । उक्तं च –
“जा देवसिअं दुगुणं, चिंतेइ गुरू अहिंडओ चेट्टं ।
बहुवावारा इअरे, एगगुणं ताव चिंतेंति" ॥१॥ [ पञ्चव./४५० ] तत्र चिन्तनीयेयं गाथा -
“सयणासणन्नपाणे, चेइअ जड़ सिज्ज काय उच्चारे ।
समिई भावण गुत्ती, वितहायरणंमि अइआरो" ॥१॥ [ आव.नि./१४९८ ] व्याख्या – शयनीयस्य वितथाचरणे सत्यतिचारः, अयं भावः - संस्तारकादेरविधिना ग्रहणादावतिचार इति, एवं आसनस्य पीठकादेरविधिना ग्रहणादावतिचारः, अन्नपानस्याविधिना ग्रहणादावतिचारः, चैत्यविषयं च वितथाचरणमविधिवन्दनादि, यतिविषयं च यथार्हविनयाद्यकरणम्, शय्याविषयं च अविधिना प्रमार्जनं स्त्र्यादिसंसक्तायां वा वसनम्, कायिकाविषयं च तस्या अस्थण्डिले व्युत्सर्जनम्, स्थण्डिले वाऽप्रत्युपेक्षितादौ, उच्चारविषयमपि तथैव, समितिविषयं चाऽऽसामविधिनाऽऽ सेवनमनासेवनं वा, एवं भावनाविषयं गुप्तिविषयं च ज्ञेयमिति । दोषान्मनसिकृत्य गुरुणा पारिते कायोत्सर्गे साधवस्तं पारयन्ति ततः प्रागुक्तक्रमेण देवसिकातिचारानालोच्य 'ठाणे गमणे' इत्यादि गुरुकथनानन्तरमन्ये वदन्ति । तत्पाठश्चायम् -
"ठाणे कमणे चंकमणे आउत्ते अणाउत्ते हरिअकाय संघट्टिअ बीयकाय संघट्टिअ तसकाय संघट्टिअ थावरकाय संघट्टिअ छप्पई संघट्टिअ ठाणाओ ठाणं संकामिआ, देहरे गोअरचरी बाहिरभूमिं मारगि जातां आवतां हरिअकाय बीअकाय नील फूल त्रस थावरजीवतणा संघट्ट परिताप उपद्रव हुआ, माटीतणो खेरो चांप्यो, काचापाणीतणा छांटा लागा, स्त्रीतिर्यञ्चतणा संघट्ट हुआ, ओघओ मुहपत्ती उसंघट्टयां, अणपूजइ हींड्या ऊघाडे मुखे बोल्या, अनेरुं जि काई पाप लागुं हुइ ते सवि हुं मनवचनकायाई करइ मिच्छामि दुक्कडं "
व्याख्या –स्थाने ऊर्ध्वादिस्थाने, गमने गतिरूपे, 'चङ्क्रमणे' परिभ्रमणे, एतत्सर्वस्थानादिपदवाच्येऽर्थ आयुक्ते उपयुक्ते अनायुक्ते - अनुपयुक्ते कृतवतीत्यर्थः । अत्रोभयत्रापि १. गणे - मु० C. ॥
D:\new/d-3.pm5\3rd proof