SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ५९० ] [ धर्मसंग्रहः - तृतीयोऽधिकारः "पुव्वभिमुहा उत्तरमुहा य, आवस्सयं पकुव्वंति । स्थापना - सिरिवच्छाकाराए, आगमविहिआइ ठवणाए ॥१॥ [ य.दि./३२९] आयरिआ इह पुरओ, दो पच्छा तिण्णि तयणु दो तत्तो । तेहिं पितणु इक्को, नवगणमाणा इमायरणा" ॥२॥ [ य.दि./३३० ] अत्र च प्रतिक्रमणारम्भे प्रथमं दैवसिकप्रायश्चित्तविशोधनार्थं शतोच्छ्वासमानं कायोत्सर्गं कुर्वन्ति तदुक्तम् – ००० Coo O "देवसिअं पच्छित्तं, विसोहयंता कुणंति उस्सग्गं । ऊसाससयपमाणं, विहिणा दिणपडिक्कमारंभे" ॥१॥ [ य.दि./३३१ ] साम्प्रतं तु परम्परया प्रतिक्रमणप्रान्ते क्रियमाणो दृश्यते, अत्रान्तरे यदि निर्व्याघातो गुरुस्तदा सर्व एव सह गुरुणा प्रतिक्रमणं कुर्वन्ति, श्राद्धानां धर्मकथनादिना व्याघाते तु गुरवः पश्चादावश्यकभूमौ तिष्ठन्ति । यतः - "जइ पुण निव्वाघाओ, आवस्सं तो करेंति सव्वे वि । सड्ढाइकहणवाघाययाए पच्छा गुरू ठंति" ॥१॥ [ पञ्चव. / ४४५ ] शेषास्तु साधवो गुरुमापृच्छ्य स्वस्थाने यथारत्नाधिकतया सूत्रानुस्मरणार्थमावश्यकभूमौ कायोत्सर्गेण तिष्ठन्ति यावद् गुरोस्तत्रागमनम् आगत्य गुरौ स्थि कायोत्सर्गे दैवसिकातिचारांश्चिन्तयन्ति इति । उक्तं च "सेसा उ जहासत्ती, आपुच्छित्ताण ठंति सट्टाणे | सुत्तत्थसरणहेडं, आयरिए ठिअंमि देवसिअं" ॥१॥[ पञ्चव./४४६ ] अत्रापवादामाह - " जो हुज्जउ असमत्थो, बालो वुड्डो विवाहिओ वा वि । सो आवस्यजुत्तो, अच्छिज्जा णिज्जरापेही" ॥१॥ [ पञ्चव./४४७ ] यो बालादिरशक्तः स आवश्यकयुक्तस्तस्यामेव प्रतिक्रमणभूमौ उपविष्टः कायोत्सर्गं करोत्येवं निर्जरापेक्षी तिष्ठेदिति । अत्र केचिद् एवं भणन्ति यदुत - ते साधवः सामायिकसूत्रं पठित्वा तिष्ठन्ति कायोत्सर्गे, स्थिताश्च ग्रन्थार्थान् चिन्तयन्ति तावद्यावद् गुरुरागतः, ततो गुरुः सामायिकसूत्रमाकृष्य दैवसिकातिचारांश्चिन्तयति, तेऽपि गुरौ तथा स्थिते तूष्णीम्भावेन कायोत्सर्गस्था एव दैवसिकातिचारांश्चिन्तयन्ति, अन्ये त्वेवं ब्रुवते, यदुत - ते साधवः सूत्रार्थं स्मरन्तस्तावत् तिष्ठन्ति, यावद्गुरुरागतः ततो गुरुः सामायिकसूत्रं पठति तदा तेऽपि १. रोगिओ-इति पञ्चवस्तुके ॥ २. द्रष्टव्या आवश्यकचूर्णि भा० २ ० २२९ ॥ ३. तदा- मु० C. नास्ति ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy