SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रहरकर्त्तव्यम् - श्लो० ९७ ॥ ] द्वादश भूमयश्चैवम् – "अहियासिआ उ अंतो, आसन्ने मज्झि तह य दूरे य । तिन्नि व अणहिआसे, अंतो छ छच्च बाहिरओ" ॥१॥ [ ओघनि./ ६३३] व्याख्या –अधिकासिका भूमयो याः संज्ञावेगेनापीडितः सुखेनैव गन्तुं शक्नोति, एवंविधा अन्तर्मध्येऽङ्गणस्य तिस्रः प्रत्युपेक्षणीयाः । कथम् ? – एका वसतेरासन्नेऽन्या मध्येऽन्या दूरे एवमेतास्तिस्रः स्थण्डिलभूमयो भवन्ति । तथा अनधिकासिकाः संज्ञावेगात्पीडितः सन् याति, ता अपि तिस्रः, एका वसतेरासन्नतरप्रदेशेऽन्या मध्येऽन्या दूरे, एवमेता अन्तरङ्गणस्य षड्, तथा षड् बाह्यतोऽङ्गणस्य भवन्ति । "एमेव य पासवणे, बारस चडवीसइं तु पेहित्ता । कालस्स वि तिन्नि भवे, अह सूरो अत्थमुवयाइ" ॥१॥ [ ओघनि./६३४ ] सुगमा । नवरं कालस्यापि ग्रहणे तिस्र एव भूमयः प्रत्युपेक्षणीयाः, ताश्च जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्यन्ते । दिनचर्यायामपि “चउभागवसेसाए, चरिमाए पोरिसीइ कालस्स । पडिकमिऊण कुणतो, थंडिलपडिलेहणे तत्तो ॥ १ ॥ [ य. दि. / ३२१ ] — अहिआसिअणहिआसिअ, बहिरंतो दूर मज्झ आसन्ने । मुत्तुच्चारे बारस, बारस कालंमि भूमितिअं" ॥२॥ [ य. दि. / ३२२ ] इति ॥९७॥ इदानीं ततः परं यत् कर्त्तव्यं तदाह आवश्यककृतिः कालग्रहस्तारत्रयेक्षणे । — [ ५८९ ततः कालिकसूत्राद्यध्ययनादि यथाविधि ॥ ९८ ॥ ‘आवश्यककृतिः' प्रतिक्रमणकरणमन्वयः प्राग्वदेव, प्रतिक्रमणं च मण्डल्यां भवतीति तदवसरे प्रथमं गीतार्थेन स्वाध्यायाद्युपयुक्तानां साधूनां ज्ञापनार्थमुद्घोषणा कार्या । तदुक्तं पञ्चवस्तुके - " इत्थेव पत्थवंमी, गीओ गच्छंमि घोसणं कुणइ । सज्झायादुवउत्ताण, जाणणट्ठा सुसाहूणं" ॥१॥ [प.व./ ४४३ ] ततः सर्वेऽप्यावश्यकप्रदेशे मिलन्ति । तत्रैवं व्यवस्था दिनचर्योक्ता D:\new/d-3.pm5\3rd proof — १. अधिका(ध्य)सिका-मु० ॥ २. अन्तः मध्ये - इति ओघनिर्युक्तिवृत्तौ । ३. प्रतिक्रमणमन्वयःमु० ॥ ४. तच्च म° मु० ॥ ५. P. । तद्विषयोऽयं क्रमः पञ्चवस्तुकोक्त : - मु० C. ।।
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy