________________
५८८]
[धर्मसंग्रहः-तृतीयोऽधिकारः ___पूर्वार्द्धं सुगमम् , स्वोपधौ च पूर्वं यथाकृतान्येकखण्डान्यतूर्णितानि च क्षाल्यानि, इतरौ द्वौ वस्त्रभेदौ अल्पबहुपरिकर्मरूपौ तौ पश्चात् , तत्राल्पपरिकर्माणि मनाक् क्वचित् सीवितानि बहुपरिकर्माणि च द्विधा सीवितानि तूर्णितानि च । प्रक्षालने यतना चेत्थम् –
"अच्छोडपिट्टणासु अ, ण धुवे धोए पयावणं न करे।
परिभोगापरिभोगे, छायातव पेह कल्लाणं" ॥१॥[ओघनि./३५७ ] साधुः प्रक्षालयन् वस्त्राणि नाच्छोटयति, नापि पिट्टयति, किन्तु हस्तेन मनाग् यतनया धावयन्ति, धौतानि चातपे न दत्ते, षटपदविराधनात । कानि पनरातपे कार्याणि ? इत्याह –परिभोग्यानि छायायामपरिभोग्यानि चातपे देयानीत्यर्थः 'पेह'त्ति तानि च शुष्यन्ति सन्ति प्रेक्षयेत् , अपहरणभयात् 'कल्लाणं'ति पश्चात् तस्य प्रक्षालनप्रत्ययम् एककल्याणकं प्रायश्चित्तं दीयते इत्यलं प्रसङ्गेन ॥९६।। साम्प्रतं सर्वोपकरणप्रतिलेखनानन्तरं यत् कर्त्तव्यं तदाह -
ततः स्वाध्यायकरणं, मुहूर्तं यावदन्तिमम् ।
तत्रोच्चारप्रश्रवणकालभूमिप्रमार्जनम् ॥९७॥ 'ततः' सर्वोपधिप्रतिलेखनान्तरं 'स्वाध्यायकरणं' सापेक्षयतिधर्मो भवतीत्यन्वयः, तच्च कियच्चिरं भवति इत्याह –'अन्तिमं' चरमं 'मुहूर्त' दिनषोडशांशरूपं यावत् । यावदन्त्यमुहूर्तं न प्राप्तं तावत्स्वाध्यायः कर्त्तव्य इत्यर्थः । यतो दिनचर्यायाम् -
"अह पुणरवि स( उज्झाओ, सुत्तं वाएइ सुत्तगाहीणं ।
अत्थत्थीणं गुरुणो, कहंति तह चेव अत्थं पि" ॥१॥[ य.दि./३२० ] इति । चरमे च मुहूर्ते प्राप्ते किं कर्त्तव्यम् ? इत्याह –'तत्र' अन्त्यमुहूर्ते उच्चारो - विविसर्जनम् , प्रश्रवणं-कायिकाव्युत्सर्जनम् , कालभूमयः कालग्रहणस्थानानि, तासां प्रमार्जनं प्रत्युपेक्षा । अयं भावः -शेषमुहूर्ते स्वाध्यायादुत्थाय साधुादशोच्चारभूमीादश [च] प्रश्रवणभूमीश्च प्रत्युपेक्षते । यदुक्तमोघनिर्युक्तौ -
"चउभागवसेसाए, चरिमाए पडिक्कमित्तु कालस्स । उच्चारे पासवणे, ठाणे चउवीसई पेहे" ॥१॥[ओ.नि./६३२ ]
१. धावे-इति ओघनिर्युक्तौ ॥ २. उज्झाओ-इति यतिदिनचर्यायाम् [क्रमाङ्क २६१६, २६२९] ।
D:\new/d-3.pm5\3rd proof