SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ उपधिस्वरूपः -श्लो० ९६॥] [५८७ "अप्पत्ते चिअ वासे, सव्वं उवहिं धुवंति जयणाए । असइए देवस्सउ,जहण्णओपायणिज्जोगो"॥१॥[ओ.नि./३५०,पि.नि.२६] इति । आचार्यादीनां तु पुनः पुनरपि प्रक्षाल्यते । यतः - "आयरिअगिलाणाणं, मइला मइला पुणो वि धोअंति। मा हु गुरूण अवण्णा , लोगंमि अजीरणं इयरे" ॥१॥ [ओघनि.३५१, पिण्डनियुक्तौ २७, प्रवचनसारोद्धारे ८६५] तत्र पात्रनिर्योगो द्वे निषद्ये संस्तारोत्तरचोलपट्टा मुखवस्त्रिका रजोहरणं चेत्युपकरणान्युपधिप्रक्षालनाकाले न विश्रामयेत् , यतो नान्यान्युपभोग्यानि भवन्ति । तत्र च षट्पदीसङ्क्रमणं वस्त्रान्तरितहस्तेनान्यस्मिन् वस्त्रे कृत्वा ततो धापनं क्रियते । यतः - "पायस्स पडोआरं, दुनिसेज्ज तिपट्टपोत्तिरयहरणं । एते ण विसामिज्जइ, जयणा संकामणा धुवणा" ॥१॥[ओघनि./३५२] शेषोपधेस्तु विश्रामणं भवति । तच्चैवम् – "अभितरपरिभोगं, उवरि पाउणइ णाइदूरे अ। तिन्नि अतिन्नि अएक्कं, निसाउकाउंपडिच्छेज्जा" ॥१॥[ओघनि./३५३] अन्तःपरिभोगकल्पं त्रीन् रात्रीन् कल्पद्वयोपरि प्रावृणोति, ततस्त्रीन् रात्रीनात्मासन्ने स्थापयति, एकां च रात्रिं आत्मोपरि कीलिकादौ स्थापयति, ततोऽपि स्वयं प्रावृत्य परीक्षते, यदि षट्पद्यो न लगन्ति तदा प्रक्षालनीयः । प्रक्षालनार्थं च गृहिभाजनेषु नीव्रोदकस्यापि ग्रहणमनुमतम् । यतः - "निव्वोदगस्स गहणं, केई भाणेसु असुइपडिसेहो । गिहिभायणेसु गहणं, ठिअवासे मीसयं छारो" ॥१॥[ओघनि./३५५ ] "ठिअवासे'त्ति स्थिते वर्षणे ग्राह्यम् , वर्षति तु अन्तरिक्षतः पातान्मिश्रमिति न ग्राह्यम् । बहुवेलारक्षणार्थं तु तत्र क्षारः क्षेप्य इति । उपधिक्षालनक्रमश्चैवम् – "गुरुपच्चक्खाणिगिलाणसेहमाईण धोअणं पुट्वि । तो अप्पणो पुव्वमहागडे अ इअरे दुवे पच्छा" ॥१॥[ओघनि./३५६ ] १. C.P. | उ दवस्स उ(य)-मु० । व दव्वस्स उ-इति ओघनिर्युक्तौ । उदगस्स उ-इति प्रवचनसारोद्धारे गा० ८६४ ॥ २. अवन्नो-इति ओघनियुक्तौ । अवण्ण-इति प्रवचनसारोद्धारे । अवर्ण:-अश्लाघा-इति तत्र वृत्तौ ॥ ३. एते ण उ विस्सामो जयणा-इति ओघनिर्युक्तौ ।। ४. जयणामु० P.C. || ५. अ न एक्कं निसिउं-इति ओघनिर्युक्तौ ॥ ६. अप्पणा-इति ओघनिर्युक्तौ ।। D:\new/d-3.pm53rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy