________________
५८६]
[धर्मसंग्रह:-तृतीयोऽधिकारः परिहरन्निति सेवमानः । तथा – "मुच्छारहिआणेसो, सम्मं चरणस्स साहगो भणिओ।
जुत्तीए इहरा पुण, दोसा इत्थं पि आणाई" ॥१॥[पञ्चव./८३९] इत्यौपग्रहिकोपधिविचारः। [अत्रेदमवधेयम्-स्थविरकल्पिकानां प्रच्छादकत्रिकादि उपकरणं यत्पूर्वमुक्तं तत्सामान्यापेक्षया, विशेषापेक्षया त्वधिकधारणेऽप्यदोषः । तथा चोक्तं बृहत्कल्पवृत्तौ-कीदृशं पुनरुपधि भिक्षुरुपधारयतीति आह -
"भिन्नं गणणाजुत्तं, पमाणइंगालधूमपरिसुद्धं ।
उवहिं धारइ भिक्खू , जो गणचिंतं न चिंतेइ" ॥१॥[बृ.क.भा./३९८७ ] भिन्नं नाम सदशं सकलं वा यन्न भवति, गणनायुक्तं -गणनाप्रमाणोपेतम् , प्रमाणेन च यथोक्तदैर्घ्यविस्तारविषयमानेन युक्तमित्यनुवर्त्तते, तथाऽङ्गारधूमाभ्यां परि-समन्तात् शुद्धं विरहितम् , एवंविधम् उपधि भिक्षुर्धारयेत् यो गणचिन्तां न चिन्तयति सामान्यसाधुरितिभावः । यस्तु गणचिन्तकस्तस्य न प्रतिनियतं उपधिप्रमाणं तथा चाह -
"गणचिंतगस्स सत्ता, उक्कोसो मज्झिमो जहण्णो य ।
सव्वो वि होइ उवही, उवग्गहकरो महाणस्स" ॥१॥[बृ.क.भा./३९८८ ] 'गणचिन्तको' गणावच्छेदकादिस्तत्सत्तायामत ऊर्ध्वं उत्कृष्टो मध्यमो जघन्यश्च सर्वोऽप्यौघिक औपग्रहिकश्चोपधिर्महाजनस्योपग्रहं करोति । इदमेव भावयति -
"आलंबणे विसुद्धे, उवहि दुगुणो चउग्गुणो वा वि।
सव्वो वि होइ उवही, उवग्गहकरो महाजणस्स" ॥१॥[ बृ.क.भा./३९८९] आलम्बनं द्विधा, द्रव्यतो गर्तादौ निमज्जतो रज्ज्वादिः, भावतः संसारगर्त्तायां निपततां ज्ञानादि, इह पुनर्यत्र क्षेत्रे काले वा दुर्लभं वस्त्रं तदादिकमालम्बनं गृह्यते, तत्र विशुद्धे प्रशस्ते सति द्विगुणो वा चतुर्गुणो वा औधिक औपग्रहिकश्चोपधिः सर्वोऽपि महाजनस्य -गच्छस्योपग्रहकरो भविष्यतीतिकृत्वा चिन्तकस्य परिग्रहे भवतीति] वस्त्रादिश्च सर्वोऽप्युपधिरर्द्धमासेनाप्राप्ते वर्षाकाले यतनया प्रक्षाल्यः, प्रचुरजलाभावे तु पात्रनिर्योग एव प्रक्षाल्यः । तदुक्तमोघनिर्युक्तौ -
१. P. बृहत्कल्पवृत्तौ । गणनया तूक्तं प्र मु० C. इ ॥ २. सतो-P. | एत्तो-इति बृहत्कल्पभाष्ये ॥ ३. द्वो-मु० ॥ ४. दुगुणो तिगुणो च” इति बृहत्कल्पभाष्ये ॥ ५. त्रिगुणो वा च० इति बृहत्कल्पवृत्तौ ॥ ६. P. बृहत्कल्पवृत्तौ । हो-मु० C. ॥ ७. वस्त्रादरुपधिरर्ध' P. ||
D:\new/d-3.pm5\3rd proof