________________
औपग्रहिकोपधिस्वरूपम् - श्लो० ९६ ॥]
[ ५८५
इत्यर्थः, वक्ष्ये छेदपाटी पुस्तकम्, यथा - तनुभिः स्तोकैः पत्रैरुच्छ्रितरूपो भवति ।
लक्षणान्तरमाह -
"दीहो वा हस्सो वा, जो पिहुलो होइ अप्पबाहल्लो ।
तं मुणिअसमयसारा, छिवाडिपुत्थं भणंतीह" ॥१॥ [प्र.सा./६६८ ] तथा फलकं पट्टिका यस्यां लिखित्वा पठ्यते समवसरणफलकं वा, तच्च कारणेऽवष्टम्भार्थं भवति उत्सर्गतश्च साधूनामवष्टम्भो न युक्तः, प्रत्युपेक्षितेऽपि स्तम्भादौ कुन्थुपिपीलिकादिजन्तुसञ्चारस्य दुर्वारत्वात् ।
[यतः- “अव्वोच्छिन्ना तसा पाणा, पडिलेहा न सुज्झई ।
तम्हा हट्टहट्टस्स, अवद्वंभो न कप्पई" ॥१॥ [ ओघनि./ ३२२ ] इति ] ग्लान्यादिकारणे तु घनमसृणादिगुणोपेते फलके पाषाणमये स्तम्भे सुधामृष्टे कुड्ये कुड्यसंलग्नोपधिविण्टलिकायां वा अवष्टभ्नीतेति ।
"अतरंतस्स उ पासंगा, जेणं दुक्खं ति तेणऽवट्टंभे ।
संजयपट्टी थंभे, सेले छुहाकुड्डुविट्टलिए " ॥१॥ [ ओघनि./३२४]
इत्युत्कृष्ट औपग्रहिक उपधिः सर्वोऽक्षादिः । दण्डकादीनां चोपकरणत्वमित्थम् – “दुट्टपसुसाणसावयविज्जलविसमेसु उदगमाइसु ।
लट्ठी सरीररक्खा, तवसंजमसाहिआ भणिआ ॥१॥ [ ओघनि./७३९ ] मोक्खट्टा नाणाई, तणू तयट्ठा तयट्ठिआ लट्ठी
दिट्ठा जहोवयारे, कारणतक्कारणेसु तहा" ॥१॥ [ ओघनि./७४० ]
न च केवलं यष्टिरुपकरणं वर्त्तते, किन्त्वन्यदपि यज्ज्ञानादीनामुपकारकं तदुप
करणमुच्यते । तथा चाह -
"जं जुज्जइ उवयारे, उवगरणं तं सि होइ उवगरणं ।
अइरेगं अहिगरणं, अजओ अजयं परिहरतो" ॥१॥[ ओघनि./७४१ ]
१. यस्यां लिखित्वा पठ्यते - C. नास्ति ॥ २. पासं जेणं P. । पासा गाढं - इति ओघनिर्युक्तौ ॥ ३. C. ओघनिर्युक्तौ । संजम मु० P. II ४. C.P. I बु (त) हकुड्ड मु० । छुहाकुड्डविट्टीए-इति ओघनिर्युक्तौ । सुधामार्ष्णेये कुड्ये....विण्टिका वा... इति तत्र वृत्तौ ॥ ५. यचिक्खल' इति ओघनिर्युक्तौ । 'चिक्खलः सकर्दमः प्रदेश' इति तत्र वृत्तौ ।। ६. P. C. । उदगमाईसु-मु० । उदगमज्झेसु-इति ओघनिर्युक्तौ । उदकमध्येषु इति तत्रवृत्तौ ।। ७. उवकरणे - इति ओघनिर्युक्तौ ॥
D:\new/d-3.pm5\3rd proof