________________
औपग्रहिकोपधिस्वरूपम् -श्लो० ९६॥]
[५८३ "तणगपणगं पुण भणिअं, जिणेहिं जिअरागदोसमोहेहिं ।
साली वीही कोद्दव, रालय रन्नेतणाई च" ॥१॥[प्रव./६७५] शालय: कलमाद्या, व्रीहयः षाष्टिकादयोऽरण्यतृणानि श्यामाद्यानीति । तृणान्यकृतस्तु संस्तारकोऽशुषिरः । दण्डादिपञ्चकं पुनर्दण्ड: १ विदण्ड: २ यष्टि: ३ वियष्टिः ४ नालिका ५ चेति । यतः -
"लट्ठी तहा विलट्ठी, दंडो अ विदंडओ अ नालीओ। भणिअं दंडगपणगं, वक्खाणमिणं भवे तस्स ॥१॥[प्र.सा./६६९] लट्ठी आयपमाणा, विलट्ठि चउरंगुलेण परिहिणा । दंडो बाहुपमाणो, विदंडओ कक्खमित्तो अ॥२॥[प्र.सा.६७०, ओघनि.७३०] लट्ठीए चउरंगुल, समूसिओ दंडपंचगे नाली । नइपमुहजलुत्तारे, तीए थग्गिज्जए सलिलं ॥३॥[प्र.सा./६७१] बद्धइ लट्ठीए जवणिआ, विलट्ठीइ अ कत्थइ दुवारं।
घट्टिज्जए उवस्सय-तणयं तेणाइरक्खट्ठा" ॥४॥[प्र.सा./६७२ ] भोजनवेलायां जवनिकाबन्धने यष्ट्याः प्रयोजनम् , वियष्ट्या तु कुत्रापि प्रत्यन्तग्रामादौ उपाश्रयसत्कं द्वारं घट्यते, येन तदाहनने षाट्कारश्रवणात् तस्करशुनकादयो नश्यन्ति ।
"उउबद्धमि अ दंडो, विदंडओ धिप्पए वरिसयाले ।
जं सो लहुओ निज्जइ, कप्पंतरिओ जलभएणं" ॥१॥[प्र.सा./६७३] ऋतुबद्ध भिक्षाभ्रमणादिवेलायां दण्डको गृह्यते, तेन प्रद्विष्टानां द्विपदचतुष्पादानां चौरगवादीनां निवारणं क्रियते, वृद्धस्य चावष्टम्भनहेतुर्भवतीत्यादिरर्थः । तथा वर्षाकाले विदण्डो गृह्यते, यतः स लघुक: कल्पाभ्यन्तरे कृतः सुखेनैव नीयते जलस्पर्शभयेनेति । यष्टिश्च पर्वनवकं यावत् विषमसङ्ख्यपर्विका दशपर्विका च शुभा समसङ्ख्यपर्विका त्वशुभेति “एगपव्वं पसंसंति'' [ओघनि. ७३१] इत्यादिना ज्ञेयम् । तथा मात्रकत्रयम् , संज्ञाकायिकीश्लेष्ममात्रकभेदात् , पादलेखनिका च कर्दमापनयनी काष्ठमयीति । तथा
"चम्मतिअं पट्टदुगं, णायव्वो मज्झिमो उवहिं एसो। अज्जाण वारए पुण, मज्झिमो होइ अइरित्तो" ॥१॥[ पञ्चव./८३६ ]
१. तुला-स्थानाङ्गसूत्रवृत्तिः सू० ३१०, आवश्यकहारिभद्रीयवृत्तिः प० ६५२, निशीथभाष्यं गा० ४०००, बृहत्कल्पभाष्यं गा० ३८२२ ॥ २. खाटकार' इति प्रवचनसारोद्धारवृत्तौ भा० १/प० ५५४ ॥ ३. वारओ-इति पञ्चवस्तुके ॥
D:\new/d-3.pm53rd proof