SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ५८२] [धर्मसंग्रह:-तृतीयोऽधिकारः अयमपर औपग्रहिकोपधिर्भवति, दण्डको यष्टिश्चेति द्वयं सर्वेषामेव पृथक् पृथगौपग्रहिकः, अयमपरो गुरोरेव । कश्चासौ ? (चर्म)चर्मकृत्तिः चर्मच्छेदः वर्धपट्टिका यदि वा पिप्पलकादि, तथा पट्टो योगपट्टः, चिलिमिली यवनिका, एतानि चर्मादीनि गुरोरेव । "जं चण्ण एवमाई. तवसंजमसाहगं जडजणस्स। ओहाइरेगगहिअं, ओवग्गहिअं विआणाहि" ॥१॥[ओघनि./७२९] यच्चान्यद्वस्तूपानहादि तप:संयमयोः साधकं यतिजनस्य ओघोपधेरतिरिक्तं गृहीतम् औपग्रहिकं विजानीहि । इत्थं चा] परोऽप्यौपग्रहिको भवतीति ज्ञेयम् । अथैतस्मिनप्यौघिकवदुत्कृष्टादिभेदाः सन्ति, इत्युच्यन्ते - "पीठग णिसज्ज दंडग, पमज्जणी घट्टए डगलमाई। पिप्पलगसूईणहरयणि सोहणगदुगं जहन्नो उ" ॥१॥ [पञ्च./८३४] पीठकं काष्ठछगणात्मकम् , त्रेहवत्यां वसतौ वर्षाकाले वा ध्रियत इत्यौपग्रहिकम् , संयतीनां त्वागतसाधुनिमित्तमिति, निषद्या -पादप्रोञ्छनम् , जिनकल्पिकानां तु न भवति, निषीदनाभावात् , दण्डकोऽप्येवम् , नवरं निवारणाभावात् , प्रमार्जनी –वसतेः शुद्धिकरणी दण्डकप्रोञ्छनाभिधाना, घट्टकः पात्रकाणां तथाविधः पाषाणः, डगलादयो निर्लेपनलोष्ठाः, एवं पिप्पलकः पात्रमुखादिकरणाय लोहमयः, सूची सीवनादिनिमित्तम् , नखरदनी प्रसिद्धा, शोधनकद्वयं च कर्णदन्तशोधनकभेदादिति जघन्यत औपग्रहिक उपधिः । मध्यममाह - "वासत्ताणे पणगं, चिलिमिलिपणगं दुगं च संथारे। दंडाईपणगं पुण, मतगतिगपायलेहणिआ" ॥१॥ [ पञ्च./८३५ ] वर्षात्राणे पञ्चकम् , तद्यथा -कम्बलमयं १ सूत्रमयं २ तालपत्रसूची ३ पलाशपत्रकुटशिर्षकं ४ छत्रकं ५ चेति, इमानि च लोकप्रसिद्धप्रमाणानि । तथा चिलिमिलिपञ्चकं सूत्रमयी तृणमयी वाकमयी दण्डमयी कटकमयीति, प्रमाणं चास्या गच्छापेक्षया सागारिकप्रच्छादनाय तदावरणात्मिकैवेयमिति । संस्तारकद्वयं शुषिराशुषिरभेदात् , तत्र तृणादिकृतः शुषिरः, तृणानि च पञ्चोपयोगीनि । तदुक्तम् – १. ओघनियुक्तिवृत्तिः । वर्धापट्टिका मु० ॥ २. पीढ' इति ओघनिर्युक्तौ ॥ ३. C.P. पञ्चवस्तुके। घट्टग मु० ॥ ४. कुट ४ शीर्षकं छ” इति पञ्चवस्तुकवृत्तौ ।। ५. चिलिमिली इति पञ्चवस्तुकवृत्तौ ॥ ६. कण्टक' इति पञ्चवस्तुकवृत्तौ ।। D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy