SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ उपधिस्वरूपं प्रमाणप्रमाणेन -श्लो० ९६॥] [५८१ एवाभ्यन्तरनिषद्यापट्टको वक्ष्यमाण इत्येते चत्वारः, तत्रापि षट्पदीरक्षणार्थं कम्बलीसंस्तारकस्योपरि क्षौमिकं कुर्यात् , शरीरकम्बलसङ्घर्षणे हि षट्पद्यो विराध्यन्त इति । अथ क्षौमनिषद्याप्रमाणमाह - "रयहरणपट्टमेत्ता, अदसागा किंचि वा समइरेगा । एकगुणा उ निसज्जा, हत्थपमाणा सपच्छागा" ॥१॥[ओघनि./७२५ ] दशारहितरजोहरणपट्टमात्रात् किञ्चिदधिका वा क्षौमनिषद्या ‘एकगुण'त्ति एकैव सा भवति हस्तप्रमाणा च पृथुत्वेन, 'सपच्छाग'त्ति सह बाह्यया निषद्यया हस्तप्रमाणया भवतीति तस्या अपि प्रमाणमुक्तम् । "वासोवग्गहिओ पुण, दुगुणो उवही उ वासकप्पाई। आयासंयमहेउं, एक्कगुणो सेसओ होइ" ॥१॥[ओघनि./७२६ ] वर्षासु औपग्रहिक उपधिर्द्विगुणो भवति, कश्चासौ, वर्षाकल्पादिरादिशब्दात् पटलादिः "जो बाहिं हिंडंतस्स तिम्मइ से सो दुगुणो होइ, एको तिम्मो पुणो अन्नो घेप्पइ"[ ] स च वर्षाकल्पादिर्द्विगुणो भवति, आत्मसंयमरक्षार्थं च । तत्रात्मसंरक्षणार्थं यद्येकगुणा एव कल्पादयो भवन्ति ततश्च -"तेहिं हिंडतेहिं पोट्टसूलेणं मरति, संजमरक्खणत्थं जइ एक्कं चेव कप्पं अइमइलं उद्देऊण नीहरइ, सो( तो )तस्स कप्पस्स जं पाणि पडइ तिम्मंतस्स तेणं आउक्काओ विणस्सइ"[ ] शेषस्तूपधिरेकगुण एव भवति, न द्विगुण इति । किञ्च - "जं पुण सपमाणाओ, ईसिं हीणाहिअं व लंभेज्जा। उभयं पि अहाकडयं, न संधणा तस्स छेदो वा" ॥१॥[ओघनि./७२७] यत्पुनः कल्पादिरुपकरणं स्वप्रमाणादीषद्धीनमधिकं वा लभ्येत तदुभयमिति "ओहिअस्स ओवग्गहिअस्स वा' [ ] यदि वा उभयं तदेव हीनमधिकं वा लब्धं सत् 'अहाकडं'ति यथाकृतं अल्पपरिकर्म यल्लभ्यते तस्य न सन्धना क्रियते हीनस्यापि, छेदो वा क्रियतेऽधिकस्येति । [तथा- "दंडए लट्ठिआ चेव, चम्मए चम्मकोसए। चम्मछेदण पट्टे अ, चिलिमिली धारए गुरू" ॥१॥[ओघनि./७२८ ] १. अवही इति ओघनिर्युक्तौ ॥ २. अवधि इति ओघनियुक्तिवृत्तौ ॥ ३. सो सो-इति ओघनियुक्तिवृत्तौ ।। ४. तेहिं तिन्नेहिं पोट्ट' इति ओघनियुक्तिवृत्तौ ।। ५. तो तस्य-इति ओघनिर्युक्तौ ।। ६. P.C. ओघनियुक्तिवृत्तौ । कप्पसंगतं पा मु० ॥ ७. हीनस्य तथा न छेदः क्रियतेऽधिकस्य-इति ओघनियुक्तिवृत्तौ ।। ८. वि-इति ओघनिर्युक्तौ ।। D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy