________________
उपधिस्वरूपं प्रमाणप्रमाणेन - श्लो० ९६॥]
[५७९ दुर्लभद्रव्यं घृतादि (तस्य) ग्रहणम् , तथा सहसा गृहस्थेन प्रचुरद्रव्यं दत्तं तद् ग्रहणं च तेन क्रियते, तथा यत्र क्षेत्रे काले वा स्वभावेनैव संसक्तं भक्तपानं भवति, तत्र प्रथमं मात्रकेण तद्गृह्यते, ततः शोधयित्वा भक्तपानमितरेषु पतद्ग्रहेषु प्रक्षिप्यते, इत्यादि प्रयोजनम् , अन्यत्प्रमाणं च मात्रकस्येदम् – "सूवोदणस्स भरिओ, दुगाउअध्धाणमागओ साहू। भुंजइ एगट्ठाणे, एअंकिर मत्तगपमाणं" ॥१॥[ओ.नि./७१४, पञ्च.५१९, प्रव.५११]
सुगमा । अथ चोलपट्टप्रमाणमाह - "दुगुणो चउग्गुणो वा, हत्थो चउरंस चोलपट्टो अ। थेरजुवाणाणट्ठा, सण्हेथूलंमि अविभासा" ॥१॥[ओ.नि./७२१, पञ्च.८२१, प्रव.५१२]
द्विगुणश्चतुर्गुणो वा कृतः सन् हस्तश्चतुरस्त्रो भवति, स्थविरयूनोराय, स्थविराणां द्विहस्तप्रमाणो यूनां च चतुर्हस्त इत्यर्थः, श्लक्ष्णे स्थूले च विभाषा, स्थविरस्य श्लक्ष्णः यूनश्च स्थूल इति । तत्प्रयोजनमाह - "वेउव्वऽवाउडे. वाडए अखदपजणणे चेव । तेसिं अणुग्गहट्ठा, लिंगुदयट्ठा य पट्टो उ" ॥१॥ [ओ.नि./७२२]
यस्य साधोः प्रजननं –लिङ्गं वैक्रियं -विकृतं बेण्टविन्धनादिना भवति तत्प्रच्छादनार्थं चोलपट्टोऽनुजज्ञे, 'अवाउडे'त्ति कश्चिदप्रावृतसाधनोऽग्रभागे चर्मणाऽनाच्छादितलिङ्गो भवति, तथा कश्चिद्वातिको -वातेनोच्छूनलिङ्गो भवति, कश्चिद् ह्रीमान् भवति, तथा 'खद्ध'त्ति कस्यचित् बृहत्साधनं भवति, एषामनुग्रहार्थं, लिङ्गोदयदर्शननिवारणार्थं च चोलस्य - पुंचिह्नस्य पट्टश्चोलपट्ट इति । ___अत्र प्रसङ्गत उपधिविभागप्रदर्शनाय स्वयंबुद्धप्रत्येकबुद्धानां स्वरूपमुच्यते । "अवरे वि सयंबुद्धा, हवंति पत्तेअबुद्धमुणिणोऽवि ।
पढमा दुविहा एगे, तित्थयरा तदिअरा अवरे ॥१॥[प्र.सा./५१९] तित्थयरवज्जिआणं, बोही उवही सुअंच लिंगं च । णेयाई तेसि बोही, जाइस्सरणाइणा होइ ॥२॥[प्र.सा./५२०] मुहपत्ती रयहरणं, कप्पतिगं सत्त पायणिज्जोगो । इअ बारसहा उवही, होइ सयंबुद्धसाहूणं ॥३॥[प्र.सा./५२१]
१. वाइए हिए-इति ओघनिर्युक्तौ । ह्रीक-इति तत्र वृत्तौ । वाइए य ही-इति प्रवचनसारोद्धारे [५१८] । ह्रीमान्-तत्र वृत्तौ ।
D:\new/d-3.pm53rd proof