________________
५७८]
[धर्मसंग्रहः-तृतीयोऽधिकार: नासिकामुखयो रजःप्रवेशरक्षणार्थं यावता मुखमाच्छाद्यते, त्र्यसायाश्च कोणद्वयं गृहीत्वा पृष्ठतः कृकाटिकायां ग्रन्थिातुं शक्यते तावत्प्रमाणा कार्येत्यर्थः । तत्प्रयोजनं चेत्थम् -
"संपातिमरयरेणूपमज्जणट्ठा वयंति मुहपत्तिं ।
नासं मुहं च बंधइ, तीए वसहिं पमज्जंतो" ॥१॥[ओ.नि./७१२] संपातिमसत्त्वरक्षणार्थं जल्पद्भिर्मुखे दीयते, तथा रजः-सचित्तपृथिवीकायस्तत्प्रमार्जनार्थम् , तथा रेणुप्रमार्जनार्थं मुखवस्त्रिकाग्रहणम् , तथा तया नासिकां मुखं च बनीत वसतिं प्रमार्जयन् येन न मुखादौ रजः प्रविशति । अथ मात्रकप्रमाणं यथा -
"जो मागहो अ पत्थो, सविसेसयरं तु मत्तगपमाणं ।
दोसु वि दव्वग्गहणं, वासावासे अहीगारो" ॥१॥[ओ.नि./७१३ ] मागधश्च प्रस्थ: "दो असईउ पसई, दो पसईओ सेइआ, चउसेइआर्हि मागहो पत्थो" [ ]इतिस्वरूपस्ततः सविशेषतरं मात्रकं भवति । तेन किं प्रयोजनम् ? इत्याह –'दोसु विपत्ति द्वयोर्वर्षाकालऋतुबद्धयोर्गुर्वादिप्रायोग्यद्रव्यग्रहणं क्रियते, इदं मात्रकस्य प्रयोजनम् । तथा –
"आयरिए अगिलाणे, पाहुणए दुल्लहे सहसदाणे ।
संसत्तभत्तपाणे, मत्तगपरिभोगणुन्नाओ" ॥१॥ [ओ.नि./७१६] तत्रायं विधि:-"एक्कंमि उ पाउग्गं, गुरुण, बितिउग्गहे अ पडिकुटुं।
गिण्हइ संघाडेगो, धुवलंभे सेस उभयं पि ॥१॥[ओ.नि./७१७] असई लाभे पुण मत्तए अ सव्वे गुरूण गेण्हंति ।
एसेव कमो निअमा, गिलाणसेहाइएसुं पि" ॥२॥ [ओ.नि./७१८ ] यत्र क्षेत्रे गुरुग्लानप्राघूर्णकादियोग्यद्रव्यस्यावश्यंलाभस्तत्रैक एव सङ्घाटकस्तत्प्रायोग्य द्रव्यं गृह्णाति, न तु सर्वे, सोऽपि कथं गृह्णाति ? इत्याह -एकस्मिन् प्रतिग्रहे प्रायोग्यं गुरोर्गृह्णाति, द्वितीये च प्रतिकुष्टं-प्रतिषिद्धं संसक्तादि, अथवा प्रतिकृष्टं -विरुद्धं काञ्जिकादि गृह्णाति, शेषाः सङ्घाटका आत्मार्थमुभयमपि भक्तं पानं च गृह्णन्ति, एकस्य पतद्ग्रहे पानम् , द्वितीयस्य पतद्ग्रहे भक्तमिति । असति च प्रायोग्यद्रव्यस्य ध्रुवलाभे सर्व एव सङ्घाटका मात्रकेषु गुर्वादिप्रायोग्यं गृह्णन्ति, यतो न ज्ञायते अनुकूलं स्यात् आहोश्विन्नेति । तथा
१. ता L.P.C. I तो-ओघनियुक्ति-पञ्चवस्तुक[८१७]-प्रवचनसारोद्धारेषु [५१४] ।। २. मागहओ-इति ओघनियुक्ति-पञ्चवस्तुक[८१८]-प्रवचनसारोद्धारेषु [८१०] ।। ३. C. पञ्चवस्तुकः ८१८ । ओघनिर्युक्तौ-वासावासासु-इति । वासवासे अ अ-P. | वासावासे य-इति प्रवचनसारोद्धारे गा० ५१० ॥ ४. P. । सर्व एव-मु० C. नास्ति ।।
D:\new/d-3.pm53rd proof