________________
उपधिस्वरूपं प्रमाणप्रमाणेन -श्लो० ९६॥]
[५७७ _ 'मूले' दण्डपर्यन्ते 'घन' निबिडं भवति, 'मध्ये' 'स्थिरम्' 'अग्रे' दशिकान्ते 'मार्दवयुक्तम्' 'एकाङ्गिकं' तद्गतदशिकं कम्बलीखण्डनिष्पादितमित्यर्थः 'अशुषिरम्' अग्रन्थिला दशिका निषद्या च यस्य तत् 'पोरायाम'ति अङ्गुष्ठपर्वणि प्रतिष्ठिताया प्रदेशिन्या यावन्मात्रं शुषिरं भवति तावत्तेन सदण्डकेन निषद्याद्वयसहितेन च पूर्यते तथा कर्त्तव्यम् , 'त्रिपाशितं' त्रिवेष्टनदवरकेण पाशितम् । किञ्च - "अप्पोलं मिउ पम्हं च, पडिपुन्नं हत्थपूरिमं ।। रयणीपमाणमित्तं, कुज्जा पोरपरिग्गहं" ॥१॥ [ओ.नि./३२२, बृ.क.भा.३९७९ ]
'अप्पोलं' दृढवेष्टनात् प्रतिपूर्ण सद्बाह्येन निषद्याद्वयेन युक्तं सद्धस्तं पूरयति तथा तथा कर्त्तव्यम् , तथा रत्निप्रमाणमात्रं यथा हस्तप्रमाणदण्डकं भवति तथा कार्यम् । तथा 'पोरपरिग्गह'ति अङ्गुष्ठप्रदेशिनीकुण्डलिकापूरणं कर्त्तव्यम् । अथ समुदायस्यैव प्रमाणमाह - "बत्तीसंगुलदीहं, चउवीसं अंगुलाइ दंडो से। अटुंगुला दसीओ, एगयरंहीणमहिअंवा" ॥१॥[ओ.नि./७०८, पञ्च.८१४, प्रव.५०८ ]
उभयं मिलित्वा द्वात्रिंशद्ङ्गलं भवतीत्यर्थः । तच्च किम्मयं भवति ? इत्याह - "उण्णिअं अट्टि वा वि, कंबलं पायपुंछणं ।। तिपरीअल्लमणिसिटुं, रयहरणं धारए एगं" ॥१॥[ओ.नि./७०९]
पादप्रोञ्छनशब्देनात्र रजोहरणमेव गृह्यते 'तिपरिअल्लं'ति दवरकस्य त्रिःपरिवर्तं 'अणिसिटुं'ति मृदु कर्त्तव्यम् । अथ प्रयोजनमाह - "आयाणे निक्खिवणे, ठाणे निसीअणे तुअट्टे अ। पुट्वि पमज्जणट्ठा, लिंगट्ठा चेव रयहरणं" ॥१॥[ओ.नि./७१० ]
अथ मुखवस्त्रिकाप्रमाणमाह - "चउरंगुलं विहत्थी, एअं मुहणंतगस्स उ पमाणं । बितिअं मुहप्पमाणं, गणणपमाणेण एक्केक्कं" ॥१॥
[ओ.नि./७११, पञ्च.८१६, बृ.क.भा. ३९८२, प्रव.५०९] 'बितिअंति द्वितीयम् , मुखप्रमाणं-मुखानुसारेण कर्त्तव्यम् , वसति प्रमार्जयतो
१. मूलदण्ड” इति ओघनियुक्तिवृत्तौ ।। २. तज्जात' इति ओघनियुक्तिवृत्तौ ॥ ३. यथा तथाइति ओघनियुक्तिवृत्तौ ।। ४. तुअट्टसंकोए-इति ओघनियुक्ति-पञ्चवस्तुक[८१५]-प्रवचनसारोद्धारेषु [५१४] ॥ ५. वसति-मु० C नास्ति ।।
D:\new/d-3.pm5\3rd proof