________________
५७६]
[धर्मसंग्रहः-तृतीयोऽधिकार: ___ पुष्पफलोदकरजोरेणुशकुनपरिहारपातरक्षणार्थं । तत्र शकुनपरिहारः काकादिपुरीषं तस्य पात आकाशादेः एतद्रक्षार्थम् , लिङ्गस्य संवरणे -स्थगने वेदोदयरक्षणे च पटलान्युपयोगीनि । रजस्त्राणमानं त्वेवम् - "माणं तु रयत्ताणे, भाणपमाणेण होइ णिप्फण्णं । पायाहिणं करेंतं, मज्झे चउरंगुलं कमइ" ॥१॥[ओ.नि./७०३, पञ्च.८०८, प्रव.५०६]
प्रदक्षिणां कुर्वन् पुष्पकादारभ्य पात्रमध्ये चतुरङ्गलं क्रामति, अधिकं तिष्ठतीति । तत्प्रयोजनं चेदम् - "मूसगरयउक्केरे, वासे सिण्हा रए अ रक्खट्ठा ।
पाए पाए अ इक्किक्कं" ॥१॥[ओ.नि./७०४, पञ्च.८०९] ___ मूषकरजउत्केरस्य ग्रीष्मादिषु वर्षायां च सिण्हायाः-अवश्यायस्य रजसश्च रक्षणार्थं, तच्च प्रतिपात्रमेकैकं भवति । कल्पप्रमाणमाह - "कप्पा आयपमाणा, अड्डाइज्जा उ आयया हत्था । दोचेवसुत्तिआउ,उण्णिउतइओमुणेअव्वो"॥१॥[ओ.नि./७०५, पञ्च.८१२, प्रव.५०७]
आत्मप्रमाणा यावन्मात्राः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठन्ति एतावदात्मप्रमाणम् , सातिरेका मनागतिरेका स्थविराणाम् , 'अर्द्धतृतीयांस्तु आयता –दीर्घा हस्तान् जिनकल्पिकानाम्' इति पञ्चवस्तुवृत्तौ [प० १२६] । तत्प्रयोजनं चेत्थम् - "तणगहणानलसेवाणिवारणा सुक्कधम्मझाणट्ठा । दिटुं कप्पग्गहणं, गिलाणमरणट्ठया चेव" ॥१॥[ओ.नि./७०६]
तृणग्रहणानलसेवावारणार्थम् , तथा तथाविधसंहननिनां धर्मशुक्लध्यानार्थम् , कल्पग्रहणम् , जिनैः, ग्लानमृतप्रच्छादनार्थं चेति, कम्बलस्य च वर्षासु बहिनिर्गतानां तात्कालिकवृष्टावप्कायरक्षणमुपयोगः, यतो बालवृद्धग्लाननिमित्तं वर्षत्यपि जलधरे भिक्षायै असह्योच्चारप्रश्रवणपरिष्ठापनार्थं च नि:सरतां कम्बलावृतदेहानां न तथाविधाऽप्कायविराधनेति । अथ रजोहरणस्वरूपमाह - "घणं मूले थिरं मझे, अग्गे मद्दवजुतया। एगंगिअं अझुसिरं, पोरायामं तिपासिअं" ॥१॥[ओ.नि./७०७, बृ.क.भा.३९७७]
१. वित्थडा-इति ओघनियुक्ति-प्रवचनसारोद्धारयोः ॥ २. धम्मसुक्क' इति ओघनियुक्तिपञ्चवस्तुकयोः [८१३] ॥
D:\new/d-3.pm5\3rd proof