________________
उपधिस्वरूपं प्रमाणप्रमाणेन - श्लो० ९६ ॥ ] 'पायवत्थाणं'ति पटलादीनाम् ।
"पायपमज्जणहेडं, केसरिआ पाए पाए एक्केक्का ।
गोच्छ्गपत्तट्ठवणं, एक्केक्कं गणणमाणेणं" ॥१॥ [ ओ.नि./६९६ ]
केसरिका च प्रतिपात्रमेकैका गणनया, तथा गोच्छक: पात्रस्थापनं च पात्रनिर्योग एकैकमेव । अथ पटलानां स्वरूपं सङ्ख्याप्रमाणं चोच्यते -
[ ५७५
"जेहिं सविआ न दीसइ, अंतरिओ तारिसा भवे पडला ।
तिन्नि व पंच व सत्त व, कयलीगब्भोवमा मसिणा ॥१॥ [ ओ.नि./६९७, पञ्च.८०२] गिम्हासु तिन्नि पडला, चउरो हेमंति पंच वासासुं ।
उक्कोसगा उ एए, एत्तो पुण मज्झिमे वोच्छं" ॥२॥ [ ओ.नि./६९८, पञ्च.८०३ ]
ग्रीष्मस्यात्यन्तरूक्षत्वात् अचिरेण सचित्तरजःप्रभृतिपरिणतेः पटलभेदायोगात्, हेमन्तस्य स्निग्धत्वाद्विमर्देन पृथिवीरज: परिणतेस्तेन पटलभेदसम्भवात्, वर्षायाम् अतिस्निग्धत्वादतिचिरेण पृथिवीरज: परिणतेस्तेन पटलभेदयोगात्, तेषु त्र्यादीन्युक्तानि, परमुत्कृष्टान्यतिशोभनानि स्युस्तदा यथोक्तसङ्ख्यानि घटन्ते । यदि च मध्यमान्यर्द्धजीर्णानि तदा एवं -
"गिम्हासु हुंति चउरो, पंच य हेमंति छच्च वासासु ।
एए खलु मज्झिमया, एत्तो उ जहण्णओ वोच्छं" ॥३॥[ ओ.नि./६९९, पञ्च.८०४] मध्यमानां प्रभूतानामेव स्वकार्यसाधकत्वात् । यदि च जघन्यानि जीर्णानि । तदा
त्वेवम् -
" गिम्हासु पंच पडला, छप्पुण हेमंति सत्त वासासु ।
तिविहंमि कालछेए, पायावरणा भवे पडला " ॥४॥ [ ओ.नि./७००, पञ्च.८०५] 'कालच्छेए'त्ति कालच्छेदे कालविभाग इत्यर्थः । एषां प्रमाणप्रमाणं च यथा - 'अड्डाइज्जा हत्था, दीहा छत्तीसअंगुले रुंदा ।
बिइअं पडिग्गहाओ, ससरीराओ अ णिप्फण्णं" ॥५॥ [ ओ.नि./७०१, पञ्च.८०६, प्रव. ५०३ ] 'रुंदा' इति विस्तीर्णानि । द्वितीयं प्रमाणं प्रतिग्रहात् स्वशरीराच्च निष्पन्नमेतदुभयोचितमित्यर्थः । एषां प्रयोजनमाह -
“पुप्फफलोदगरयरेणुसउणपरिहारपायरक्खट्टा । लिंगस्स य संवरणे, वेओदयरक्खणे पडला ॥६॥ [ ओ.नि./ ७०२, पञ्च.८०७ ]
11
१. बत्तीस मु० ॥। २. एयरक्खट्टा - इति पञ्चवस्तुके एतद्रक्षार्थम् इति तत्र वृत्तौ ॥
D:\new/d-3.pm5\3rd proof
44