________________
५७४]
[धर्मसंग्रह:-तृतीयोऽधिकारः "वेयावच्चकरो वा, णंदीभाणं धरे उवग्गहिअं। सो खलु तस्स विसेसो, पमाणजुत्तं तु सेसाणं" ॥१॥[ओ.नि.भा./३२१] इति ।
एतत्प्रयोजनं चैवम् - "देज्जा हि भाणपूरं तु , रिद्धिमं कोइ रोहमाईसुं। तहिअं तस्सुवओगो, सेसं कालं तु पडिकुट्टो" ॥१॥[ओ.नि./६८४] ___ यस्मात् भाजनपूरमेव दद्यात् ऋद्धिमान् कश्चित् रोधकादिषु आपद्विशेषेषु तत्र - रोधकादौ तस्य –नन्दीपात्रस्योपयोगः, शेषकालं तु प्रतिकुष्टस्तस्योपयोग इति । भाजनमुखप्रमाणम् त्वेवम् - "अकरंडगम्मि भाणे, हत्थो ओटुं जहा न घट्टेइ । एअं जहन्नयमुहं, वत्थु पप्पा विसालं तु" ॥१॥[ओ.नि./६९०]
‘अकरंडगम्मि'त्ति वृत्तसमचतुरस्रे इत्यर्थः, 'ओटुंति कर्णम् । अथ पात्रप्रयोजनं यथा - "छक्कायरक्खणट्ठा, पायग्गहणं जिणेहिँ पण्णत्तं । जे अ गुणा संभोए, हवंति ते पायगहणे वि" ॥१॥[ओ.नि./६९१]
के च ते गुणाः ? इत्याह - "अतरंतबालवुड्डा, सेहाएसा गुरु असहुवग्गो। साहारणुग्गहालद्धिकारणा पायगहणं तु" ॥१॥[ओ.नि./६९२]
पात्रबन्धश्च यथा ग्रन्थौ दत्ते सति कोणौ चतुरङ्गलौ भवतः तादृक्प्रमाणो भवति । यतः"पत्ताबंधपमाणं, भाणपमाणेण होइ कायव्वं । जह गंठिमि कयंमी, कोणा चउरंगुला हुंति" ॥१॥[ओ.नि.६९३, प्रव.५०१ पञ्च.७९८ ]
त्रिकालविषयत्वात् सूत्रस्यापवादिकं चेदम् , सदा ग्रन्थ्यभावात् , पात्रस्थापनगोच्छकपात्रप्रतिलेखनीनां च प्रमाणं वितस्ति: चतुरङ्गलं च, षोडशाङ्गलानीत्यर्थः । तदुक्तम् - "पत्तट्ठवणं तह गुच्छओ अ पायपडिलेहणीआ य।। तिण्हं पि अ प्पमाणं, विहत्थि चउरंगुलं चेव" ॥१॥
[ओ.नि.६९४, पञ्च.७९९, प्रव.५०२] अत्र द्वे ऊर्णामये, पात्रमुखवस्त्रिका च क्षौमिकी । एतेषां प्रयोजनानि चेमानि - "रयमाइरक्खणट्ठा, पत्ताबंधो अ पायठवणं च ।। होइ पमज्जणहेडं, गोच्छओ पायवत्थाणं" ॥१॥[ओ.नि./६९५]
१. तत्थ वि-इति ओघनिर्युक्तौ॥२. भाणवत्थाणं-इति ओघनियुक्ति-पञ्चवस्तुकयोः [गा०८००] ।
D:\new/d-3.pm5\3rd proof