________________
उपधिस्वरूपं प्रमाणप्रमाणेन -श्लो० ९६॥]
[५७३ चोच्चारे भवति, चतुर्हस्तविस्तृता च व्याख्यानावसरे भवति, तत्र हि संयतीभिरूवा॑भिरेव स्थातव्यम् , ततस्तावत्यैवानिषण्णायाः प्रच्छादनं भवतीति भावः, चतस्रोऽपि गणनयैकमेव रूपं, युगपद् परिभोगाभावात् । यतः अपरार्द्धम् -
"संघाडीओ चउरो, तत्थ दुहत्था [य] उवसयंमि ॥१॥ दोण्णि तिहत्थायामा, भिक्खट्ठा एग एग उच्चारे। ओसरणे चउहत्था, णिसन्नपच्छायणा मसिणा" ॥२॥
[ओघनि.भा.३१८-९, प्रव.५३६उत्त.-५३७, पञ्च.८३०-१] इति । स्कन्धकरणी च चतुर्हस्ता विस्तरदैर्ध्याभ्यां समचतुरस्रा प्रावरणस्य वातविधूतस्य रक्षणार्थं चतुष्पुटीकृत्य स्कन्धे ध्रियते, सैव च रूपवत्याः कुडभनिमित्तं कुब्जकरण्यपि क्रियते, पृष्ठप्रदेशे स्कन्धादधः संवर्तितया मसृणवस्त्रपट्टकेनोत्कक्षिकावैकक्षिकानिबद्धया विरूपतापादनाय कुडभं विधियत इतिभावः । तदुक्तम् -
"खंधकरणी उचउहत्थवित्थडा वायविहुअरक्खट्ठा । खुज्जकरणी उ कीरइ रूववईणं कुडहहेऊ ५" ॥
[ओ.नि.भा.३२०, पञ्च.८३२, प्रव.५३८] इति ११। अयं चार्यिकाणामप्युपधिः प्राग्वत् त्रिप्रकारो भवति, तत्र पात्रकं कल्पत्रयं सङ्घाटी स्कन्धकरणी निवसनीद्वयं चेत्यष्टविध उपधिरुत्कष्टः । पात्रबन्धः पटलानि रजस्त्राणं रजोहरणं मात्रकम् अवग्रहानन्तकं पट्टकोऽोरुक चलनी कञ्चुक उत्कक्षिका वैकक्षिका कमठकश्चेति त्रयोदशविधो मध्यमः । पात्रस्थापनं पात्रकेसरिका गोच्छको मुखवस्त्रिका चेति चतुर्विधो जघन्यः । उत्कृष्टादिविवेकश्च प्रायश्चित्तादिकार्ये उपयुज्यते । इत्युक्तं गणनाप्रमाणम् ।
अथ प्रमाणप्रमाणं सर्वेषामुच्यते -तत्र पात्रप्रमाणं च तिस्रो वितस्तयश्चतुरङ्गलं च परिधिना भवति, तच्च मध्यमं ज्ञेयम् । अतो हीनं जघन्यमधिकं चोत्कृष्टं प्रमाणं ज्ञेयम् । उक्तं च -
"तिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं ।
एत्तो हीण जहण्णं, अइरेगयरंतु उक्कोसं" ॥१॥[ओ.नि.६८०, प्रव.५०० ] निजाहारानुसारेणापि प्रकारान्तरेण शास्त्रान्तरे प्रमाणमुक्तम् । एवं च सर्वेषां साधूनां प्रमाणोपेतमेव पात्रं भवति । वैयावत्त्यकरस्य तु गुरुणा दत्तं स्वीयं वा महत्प्रमाणत्वान्नन्दीपात्रं भवति, तच्चौपग्रहिकं न त्वौधिकम् । यतः -
१. P.C. | चार्य मु० ॥
D:\new/d-3.pm53rd proof