________________
५७२ ]
[ धर्मसंग्रहः - तृतीयोऽधिकारः
तथाऽर्धम् ऊरुकाद्विभजतीति निरुक्तादर्द्धारुकोऽवग्रहानन्तकपट्टमवष्टभ्य सर्वं कटीभागमाच्छादयति, ऊर्वोरन्तरे उरुद्वये च कसाबद्धः, चलनिकाऽपीदृशी, परम् अधोजानुप्रमाणा स्यूता कसानिबद्धा च । यतः -
" अद्धोरुओ वि ते दो वि, गिहिउं छायए कडीभागं । जाणुपमाणा चलणी, असीविआ लंखिआइ व्व" ॥१॥ [पञ्च.८२७, प्रव.५३३, तुला - ओघ. ३१५ ] इति । लङ्घिका वंशोपरिनर्त्तकी ४, तथान्तर्निवसनी उपरि कटीभागादारभ्याधोऽर्द्धजङ्घे यावद् भवति सा च लीनतरं परिधीयते, आकुलतया जनहासो मा भूदिति ५, बहिर्निवसनी च उपरि कटीत आगुल्फं विस्तृता कट्यां च दवरकेण बद्धा भवति । यतः अंतोनिवसणी पुण, लीणयरि जाव अद्धजंघाओ । बाहिरगा जा खलुगा, कंडीअदोरेण पडिबद्धा" ॥१॥
44
-
[ ओघ. ३१६, पञ्च.८२८, प्रव. ५३४ ] 'जा खलुग'त्ति यावद् गुल्फम् ६, इदमधः शरीरस्य षड्विधमुपकरणम् । अथोर्ध्वस्योच्यते, कञ्चुकोऽर्द्धतृतीयहस्तदीर्घ एकहस्तपृथुलश्च, कापालिककन्थावत्कृतोऽसीवितश्च, शिथिलबन्धेन पार्श्वद्वये कसाबद्ध उरोजावाच्छादयति ७, तथा कक्षासमीपमुपकक्षम्, तथाऽऽच्छादिकोपकक्षिकोत्कक्षिका वा, साऽप्येवंविधा स्यूता समचतुरस्रा सार्द्धहस्तमाना चोरोभागदक्षिणपार्श्वं पृष्ठं चाऽऽच्छादयति, वामस्कन्धे वामपार्श्वे च बीटकप्रतिबद्धा परिधीयते । यदुक्तम् -
44
'छायइ अणुकुईए, उरोरुहे कंचुओ असीविअओ ।
एमेव य उक्कच्छिअ, सा नवरं दाहिणे पासे " ॥१॥
[ ओघ. ३१७, प्रव. ५३५, तुला - पञ्च.८२९] इति । वैकक्षिका चोत्कक्षिकाविपरीतः पट्टो भवति वामपार्श्वपरिधानविशेषः, स च कञ्चुकमुत्कक्षिकां चाच्छादयन् वामपार्श्वे परिधीयते । यतः पूर्वार्द्धम् -"वेकच्छिआ उ पट्टो कंचुअमुक्कच्छिअं च छाएइ " [ ओघनि० भाष्ये ३१८, पञ्चवस्तुके ८३०, प्रवचनसारोद्धारे ५३६पू. ] इति । ८-९ । सङ्घाट्यश्चोपरि भोगाय चतस्रो भवन्ति, एका द्विहस्ता पृथुत्वेन, द्वे त्रिहस्ते, एका चतुर्हस्ता चेति, दैर्घ्येण चतस्रोऽपि सार्द्धहस्तत्रयप्रमाणा चतुर्हस्ता वा, तत्र द्विहस्तविस्तृतोपाश्रये भवति, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति भावः । ये च द्वे त्रिहस्तविस्तृते स्तः, तयोरेका भिक्षार्थम्, एका १. कडीइ दोरेण - इति पञ्चवस्तुक-प्रवचनसारोद्धारयोः ||
D:\new/d-3.pm5\3rd proof