________________
उपधिस्वरूपं गणनाप्रमाणेन -श्लो० ९६॥]
[५७१ गोच्छको मुखवस्त्रिका चेति चतुर्विधो जघन्यः । इदानीमार्याणां पञ्चविंशतिविध उपधिरित्थम् - "उवगरणाइँ चउद्दस, अचोलपट्टाई कमढयजुआई। अज्जाण वि भणिआई, अहिआणि अहंति ताणेवं" ॥१॥[प्र.सा./५२८]
आर्याणां च पतद्ग्रहो न भ्रमति तुच्छस्वभावत्वात् , कमठक एव भोजनक्रिया भवति, कमठकं च लेपिततुम्बकभाजनरूपम् , कांस्यमयबृहत्तरकरोटिकाकारमेकमेव निजोदरप्रमाणेन चेति ज्ञेयम् , अतिरिक्तानि च अवग्रहानन्तकः १ पट्टः २ अर्दोरुकं ३ चलनिका ४ अभ्यन्तरनिवसनी ५ बहिर्निवसनी ६ कञ्चुक: ७ उपकक्षिका ८ वैकक्षिका ९ संघाटी १० स्कन्धकरणी ११ चेत्येकादश । उक्तं च - "उग्गहणंतग १ पट्टो २, अद्धोरुअ ३ चलणिआ य ४ बोद्धव्वा ।
अब्भितर५ बाहिनिअंसणीअ६ तहकंचुए चेव७॥१॥[प्र.सा./५२९, तुला-ओघ.६७६ ] "उक्कच्छिअ८ वेकच्छी ९, संघाडी चेव १० खंधकरणी अ ११ । ओहोवहिमि एए, अज्जाणं पणवीसं तु" ॥२॥[प्र.सा./५३०, तुला-ओघ.६७७]
व्याख्या -अवग्रह: समयभाषया योनिद्वारं तस्यानन्तकं वस्त्रम् अवग्रहानन्तकम् , तच्च नावाकारम् , मध्ये पृथुलमन्तयोश्च तनुकम् , कौपीनरूपं गुह्यदेशरक्षणार्थम् , गणनया चैकम् , प्रमाणतश्च देहानुसारेण भवति, कर्त्तव्यं चार्त्तवबीजपातसंरक्षणार्थम् , घनवस्त्रेण पुंस्पर्शसमानकर्कशस्पर्शपरिहरणार्थं च मसृणवस्त्रेण, योनिस्पर्शसदृशो हि मसृणवस्त्रस्पर्शः, स च सजातीयत्वान्न प्रभवतीति । उक्तं च - "अह उग्गहणंतगं णावसंठिअं गुज्झदेसरक्खट्ठा । तं तु पमाणेणिक्कं, घणमसिणं देहमासज्ज" ॥१॥
[प्र.सा./५३१, तुला-ओघ.३१३, पञ्च.८२५ ] इति । पट्टोऽपि सङ्ख्ययैकः, पृथुत्वेन च चतुरङ्गलः समतिरिक्तो वा, दैर्येण तु स्त्रीकटीमानो यथा अवग्रहानन्तकस्य द्वाप्यन्तभागावाच्छादयन् कट्यां बध्यते । तदुक्तम् - "पट्टो वि होइ एगो, देहपमाणेण सो य भइअव्वो। छायंतोग्गहणंतं, कडिबद्धो मल्लकच्छो व्व" ॥१॥[प्र.सा./५३२] इति ।
१. कच्छा व-इति ओघनि० भाष्य[३१४]-पञ्चवस्तुक[८२६]-प्रवचनसारोद्धारादिषु ।।
D:\new/d-3.pm53rd proof