SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ५७०] [धर्मसंग्रह:-तृतीयोऽधिकारः तत्र जिनकल्पिकानां गणनाप्रमाणत ओघोपधि‘दशविधः, स्थविरकल्पिकानां चतुर्दशविधः, आर्याणां च पञ्चविंशतिविधः, अत ऊर्ध्वं यथासम्भवमौपग्रहिक उपधिर्भवति । उक्तं च - "जिणा बारसरूवाणि, थेरा चउदसरूविणो। अज्जाणं पण्णवीसं तु , अओ उ8 उवग्गहो" ॥१॥[ओघनि.६७१, पञ्च.७७१] इति । तत्र जिनकल्पिकानां द्वादशविध उपधिर्यथा - "पत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिआ । पडलाइ रयत्ताणं, गुच्छओ पायनिज्जोगो" ॥१॥[ओघनि.६६८, पञ्च.७७२, प्रव.४९१] पात्रं पतद्ग्रहः, पात्रबन्धश्चतुरस्रं तद्वन्धनकम् , पात्रस्थापनं कम्बलमयं यत्र पात्रकाणि स्थाप्यन्ते, पात्रकेसरिका पात्रप्रत्युपेक्षणिका चिलिमिलिकेति प्रसिद्धा, पटलानि भिक्षाटनकाले पात्रोपरि मोच्यवस्त्राणि, रजस्त्राणानि पात्रवेष्टनकानि प्राकृतत्वादेकत्वम् , गोच्छक: कम्बलखण्डमयः पात्रोपरि देयः, एवं सप्तविधः पात्रनिर्योगः, पात्रपरिकर इत्यर्थः । "तिन्नेव य पच्छागा, रहयरणं चेव होइ मुहपत्ती। एसो दुवालसविहो, उवही जिणकप्पिआणं तु"॥१॥[ओघ.६६९, पञ्च.७७३, प्रव.५९२] प्रच्छादकाः कल्पा इत्यर्थः, तत्रैक उर्णामयो द्वौ सूत्रमयौ, (रजोहरणं तथा मुखवस्त्रिका) एषां द्वादशविध उपधिरुत्कृष्टापेक्षया, जघन्यतस्तु द्विविधोऽपि भवति । तथा चैषामुपधेर्द्विकं त्रिकं चतुष्कं पञ्चकं नवकं दशममेकादशकं द्वादशकं चेत्यष्टौ विकल्पाः, तत्र ये पाणिपात्रा अप्रावरणकाश्च तेषां मुखवस्त्रिकारजोहरणं चेति द्विविध उपधिः, सप्रावरणकानां तु तेषामेककल्पयुक्तस्त्रिविधः, द्विकल्पयुक्तश्चतुर्विधः, कल्पत्रययुक्तश्च पञ्चविधः, पात्रधारिणां पुनरप्रावरणकानां सप्तविधः पात्रोपधिर्मुखवस्त्रिकारजोहरणं चेति नवविधः, एकादिकल्पयुक्तश्च दशैकादशद्वादशविधो भवतीति । स्थविरकल्पिनां च स एव द्वादशविधः चोलपट्टमात्रकयुक्त इति चतुर्दशविधः, तदुक्तम् - "एए चेव दुवालस, मत्तगइरेगचोलपट्टो अ। एसो चउदसरूवो, उवही पुण थेरकप्पंमि" ॥१॥[ओ.नि.६७०, प्रव.४९९] अत्रोपधिषु प्रधानमध्यजघन्यताविचारणायां जिनकल्पिकानां कल्पत्रयं पतद्ग्रहश्चेति चतुर्विध उपधिरुत्कृष्टः, अमूनि प्रधानान्यङ्गानीत्यर्थः, गोच्छकः पात्रस्थापनकं मुखवस्त्रिका पात्रकेसरिका चेति चतुर्विधो मध्यमः, पात्रबन्धः पटलानि रजस्त्राणं चेति चतुर्विधो जघन्यः । स्थविराणामपि उत्कृष्टः प्राग्वत् , पटलानि रजस्त्राणं पात्रबन्धः चोलपट्टो रजोहरणं मात्रकं चेति षड्विधो मध्यमः, पात्रस्थापनं पात्रके सरिका D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy