________________
५६८]
[धर्मसंग्रहः-तृतीयोऽधिकारः एकेन क्षमाश्रमणेन 'भगवन् ! पडिलेहणं करेमो'त्ति, द्वितीयेन च तेन 'भगवन् ! वसति पमज्जेमो'त्ति भणित्वा मुखवस्त्रिकां कायं च प्रतिलेखयन्ति । तदुक्तं दिनचर्यायाम् -
"पच्छिमजामं सेसं, सम्मं जाणित्तु समयतत्तन्नू । वागरड् खमासमणी, पत्तो पडिलेहणासमओ ॥१॥ [ य.दि./२८० ] पभणंति खमासमणं, गुरुं तओ साहुणो वि पढमंमी।
पडिलेहणं करेमो, बिइए वसहिं पमज्जेमो" ॥२॥[ य.दि./२८१] अत्र प्रत्युपेक्षका द्विविधाः –भक्ताथिनोऽभक्तार्थिनश्च, तत्र द्वयोरप्युक्तविधि यावत्प्रत्युपेक्षणा तुल्यैव । यत ओघनिर्युक्तौ -
"पडिलेहणा उ दुविहा, भत्तट्ठिअ एअरा उ णायव्वा ।
दोण्ह वि अ पडिलेहणाओ मुहणंतगसकायं" ॥१॥[ओ.नि./६२८ ] इति । ततो येऽभक्तार्थिनस्ते 'पडिलेहणा पडिलेहावउ' इति भणित्वा पूर्वोक्तगुर्वनशनिग्लानादिपुरुषक्रमेण तेषामुपधि प्रतिलेखयन्ति, ततो गुरुं संदिशाप्य 'संदिसह इच्छाकारेण ओहिअं पडिले हेम' एवं भणित्वा पात्रकं मात्रकं चात्मीयं ततश्च सकलमुपधिं प्रत्युपेक्षते, प्रान्ते च चोलपट्टम् । तदुक्तं तत्रैव -
"तत्तो गुरू परिण्णा, गिलाणसेहाइ जे अभत्तट्ठी ।
संदिसह पायमत्ते, अप्पणो पट्टगं चरिमं" ॥१॥[ओ.नि./६२९] इत्यौपवासिकप्रतिलेखनाविधिः । भक्तार्थिनस्तु -मुखवस्त्रिकाप्रतिलेखनानन्तरं चोलपट्टम् , ततो मात्रकम् , क्षुल्लभाजनं यदि रिक्तं भवति तदा, अरिक्तं तु पश्चादपीति ज्ञेयम् , ततः सपरिकरं स्वपतद्ग्रहम् , तत्राप्ययं क्रमः -प्रथमं गोच्छकं, ततः पात्रप्रतिलेखनिकां, ततः पात्रबन्धनं, ततः पटलानि, ततो रजस्त्राणं, ततः पात्रस्थापनं, ततः पतद्ग्रह, ततोऽरिक्तत्वात् पूर्वं मात्रं न प्रत्युपेक्षितं स्यात् तदा प्रत्युपेक्षिपतद्ग्रहे तत्स्थं निक्षिप्य मात्रकम् , ततो गुर्वादीनां सत्कानुपधींश्च प्रत्युपेक्षते, ततो गुरुमनुज्ञापयति यदुत –'संदिसह ओहिअं पडिलेहेमो'त्ति ततः शेषाणि गच्छसाधारणानि पात्राणि वस्त्राणि च अपरिभोग्यानि यानि यानि तानि प्रत्युपेक्षते, ततः स्वकीयं कल्पत्रिकम्
औपग्रहिकमुपधिं चापि यावत् पादप्रोञ्छनं रजोहरणं चेति भक्तार्थिनां प्रत्युपेक्षणाविधिः । तदुक्तमोघनिर्युक्तौ -
"पट्टगमत्तयसगमोग्गहो अ गुरुमाइआ अणुण्णवणा । तो सेसभाणवत्थे, पाउंछणगं च भत्तट्ठी ॥१॥ [ओ.नि./६३०]
D:\new/d-3.pm53rd proof