________________
उपधिप्रतिलेखनविधिः - श्लो० ९६ ॥]
[ ५६७
उदारस्वरेण नैषेधिकीं कृत्वा पादप्रमार्जनादिविधिना प्रविशति वसतिमिति तृतीयपौरुषीकृत्यानि ॥९४॥
साम्प्रतं तत्रागता(मना) नन्तरं यत् कर्त्तव्यं तदाह -
आगत्य वसतौ गत्यागत्योरालोचनं स्फुटम् । शेषेऽथ पश्चिमे याम, उपधिप्रतिलेखना ॥९६॥
'वसतौ'उपाश्रये 'आगत्य' उक्तविधिना प्रविश्य 'गत्यागत्योः ' गमनागमनयोः ‘आलोचनं –गुरुपुरतो निवेदनम् अन्वयः प्राग्वत्, कथं 'स्फुटं' – प्रकटं भवति (यथा) तथा न तु यथाकथञ्चित्, अयं भावः - उपाश्रये प्रविश्येर्यापथिकीं प्रतिक्रम्य गमनागमनसम्भवविराधनामालोचयतीति । तदुक्तं दिनचर्यायाम् -
"गंतूण वसहिदारे, उदारसद्दे निसीहिअं काउं ।
इरिआपडिकमणेणं, गमणागमणाइ विअडंति" ॥१॥[ य.दि./२७७ ] इति । ततश्च तृतीयपौरुष्या यदि भागोऽवशिष्टो भवति तदा स्वाध्यायं करोति, यावच्चरमपौरुषी प्राप्ता भवति । यत ओघनिर्युक्तौ -
—
"सन्नाए आगओ चरमपोरिसिं जाणिऊण ओगाढं ।
पडिलेहए अपत्तं, नाऊण करेइ सज्झायं" ॥१॥ [ ओ.नि./६२६ ] ‘ओगाढं’ति अवगाढामागतां ज्ञात्वा प्रत्युपेक्षणं करोति, अप्राप्तां तु चरमां ज्ञात्वा स्वाध्यायं चेति, समये समये क्रियमाणानां कार्याणां स्वसमयावशेषे स्वाध्यायस्यैवौचित्याद् । यदुक्तं दिनचर्यायाम् -
"कज्जस्स य कज्जस्स य, समए समए अ कज्जमाणस्स ।
जइ हुज्ज समयसेसं, तत्थ करिज्जा य सज्झायं" ॥१॥[ य.दि./२७९ ] इति । प्राप्तायां च तस्यां किं कर्त्तव्यम् ? इत्याह – 'शेष' इत्यादि । 'अथ' इति तृतीयपौरुषीसमाप्त्यनन्तरं 'पश्चिमे यामे' चरमप्रहरे 'शेषे' अवशिष्टे सति 'उपधेः' औघिकौपग्रहिकभेदभिन्नोपकरणस्य 'प्रतिलेखना' प्रत्युपेक्षणा, अन्वयः प्राग्वत् । अपराह्णप्रतिलेखनायां सर्वस्याप्युपकरणजातस्य प्रतिलेख्यत्वात् "सव्वं पुण पच्छिमे जामे'' [ ] इत्याद्यागमात्, तत्र विधिश्च पूर्वमुक्त एव, यश्च विशेषः स प्रदर्श्यते, तद्यथा – चरमपौरुष्यां प्राप्तायामेकः साधुः क्षमाश्रमणपूर्वं 'भगवन् ! बहुपडिपुन्ना पोरिसी'ति तत्समयं गुरवे निवेदयति, ततः सर्वेऽपि सम्भूयेर्यापथिकीप्रतिक्रमणपूर्वम्
D:\new/d-3.pm5\3rd proof