________________
स्थण्डिलगमनविधिः
श्लो० ९५ ॥ ]
तस्योपरि यो नवकः स गुण्यते, जाता पञ्चचत्वारिंशत्, पुनरधस्त्यानन्तरस्त्रिकस्तेन पञ्चचत्वारिंशद् भज्यन्ते, तत्र पञ्चदश लभ्यन्ते, यतः ४५ त्रिधा भक्ता १५ भवन्ति, तेन पञ्चदशकेन तस्योपरि योऽष्टकः स गुणितः विंशत्युत्तरं शतं भवति, पुनश्चाधस्त्यानन्तरश्चतुष्कस्तेन विंशत्युत्तरशतं भज्यते, तत्र त्रिंशल्लभ्यन्ते, तैस्त्रिंशद्भिस्तस्योपरि यः सप्तकः स गुणितो द्वे शते दशोत्तरे भवतः, पुनश्चाधस्त्यानन्तरः पञ्चकस्तेन दशोत्तरे द्वे शते विभज्येते तत्र, द्विचत्वारिंशल्लभ्यन्ते, तैश्च तस्योपरि यः षट्कः स गुणितो द्विपञ्चाशदुत्तरे द्वे शते भवतः, इत्येवं सर्वत्र भावना कार्या । सङ्ख्या चेयं - "दस पणयाल विसुत्तरसयं च दोसय दसुत्तरा दो य । बावन्न दोदसुत्तर विसुत्तरं पंचचत्ता य ॥१॥ [ प.व./४०४ ] दस इक्को अ कमेणं, भंगा एगाइचारणाए उ । सुद्धेण समं मिलिआ, भंगसहस्सं चउव्वीसं" [ प.व./ ४०५ ]
८
१ २ ३ ४ ५ ६ ७ १० ४५ १२० २१० २५२ २१० १२०
४५ १० १
स्थापना – त्रयोविंशत्युत्तरम् सहस्रमशुद्धभङ्गानां भवति, चतुर्विंशस्तु शुद्धः, तत्पक्षे च यथोक्तसङ्ख्यैवेति भावार्थ: । एवंविधे च शुद्धे स्थण्डिले प्राप्तस्यायं विधिः - ‘“दिसिपवणगामसूरिअछायाए पमज्जिऊण तिक्खुत्तो ।
जगहो ति काऊण वोसिरे आयमेज्जा वा" ॥१॥ [ ओ.नि./३१६ ]
-
९ १०
"संसत्तग्गहणी पुण, छायाए णिग्गयाए वोसिरइ ।
छायाविरहे उण्हे, वोसिरिअ मुहत्तगं चिट्ठे" ॥१॥
[ ५६५
संज्ञां व्युत्सृजता साधुना दिशि पूर्वायामुत्तरायां च पृष्ठं न देयं, लोकविरोधात्, रात्रौ दक्षिणस्यां पृष्ठं न देयम्, रात्रौ दक्षिणस्या दिश उत्तरस्यां दिशि देवाः प्रयान्तीति लोकश्रुतेः, ग्राम-सूर्ययोरपि पृष्ठं न देयम्, लोकविरोघादेव, पवनस्याऽपि पृष्ठं न देयम्, तस्य पृष्ठिदाने घ्राणार्शसां भवनात्, तथा छायायां तिस्रो वारा: प्रमृज्य यस्यायमवग्रहस्तेनानुज्ञातव्य इत्येवं कृत्वा व्युत्सृजति, वृक्षादिच्छायाऽभावे तु व्युत्सृज्य मुहूर्तमात्रं तिष्ठेत्, येन कृमयः स्वयमेव परिणमन्ति । उक्तं च -
4
[ पञ्चवस्तुके ४२७, प्रवचनसारोद्धारे ७८८, तुला - ओघनिर्युक्तिभाष्ये १८५ ] इति । ‘संसत्तग्गहणी’ति संसक्ता - जीवसंसक्तिव (म) ती ग्रहणी - मलद्वारं यस्यासौ ।
१. छायासइ उण्हंमि वि- इति ओघनिर्युक्तिभाष्य-पञ्चवस्तुक-प्रवचनसारोद्धारादिषु ॥ २. ग्रहण :- कुक्षि :- इति प्रवचनसारो० ॥
D:\new/d-3.pm5\3rd proof