________________
५६४]
[धर्मसंग्रह:-तृतीयोऽधिकारः कीटिकादींश्चूर्णयति, तथाऽझुषिरे -तृणाद्यनवच्छिन्ने, (झुषिरे) वृश्चिककीटकादिसंभवादात्मसंयमविराधना, तथाऽचिरकालकृते तस्मिन्नेव द्विमासिके ऋतावग्न्यादिना प्रासुकीकृते, अनन्तरऋतुकृतानि हि मिश्रीभवन्तीत्य-योग्यानि । "विच्छिण्णे दूरमोगाढे, नासन्ने बिलवज्जिए। तसपाणबीअरहिए, उच्चाराईणि वोसिरे" ॥१॥[ओ.नि.३१४, पञ्च.४००, प्रव.७१०]
विस्तीर्णे जघन्येन हस्तप्रमाणे चतुरस्रे उत्कृष्टेन द्वादशयोजने, तथा दूरमधोऽवगाह्य अग्न्यादितापेन प्रासुकीकृते, जघन्येन चत्वार्यङ्गलानि, तथाऽनासन्ने -अनिकटे, आसन्नं च द्रव्यभावाभ्यां द्विविधम् , तत्र द्रव्यासन्नं गृहारामादिसमीपम् , भावासन्नं नाम तावत् तिष्ठति यावदागाढं जातम् , तथा बिलवजिते, अग्रे सुगमम् । एवमापातादिदशदोषरहिते स्थण्डिले उच्चारादीनि व्युत्सृजेदिति तात्पर्यम् । एभिश्च दशभिरेकादिसंयोगाः कर्त्तव्याः, तत्र भङ्गसहस्रं चतुर्विंशत्युत्तरं भवति । तदुक्तम् - "एक्कदुगतिगचउपंचगछक्कगसत्तट्टणवगदसगेहिं ।।
संजोगा कायव्वा, भंगसहस्सं चउव्वीसं" ॥१॥[पञ्च./४०१] __ तत्र द्विकसंयोगे चत्वारस्त्रिष्वष्टौ चतुष्प्रभृतिषु द्विगुणा वृद्धिर्भवती चतुर्थ्य: षोडशभङ्गिका निष्पत्तिरित्यादि, एवमेकैकवृद्ध्या दशभिर्वस्तुभिर्भङ्गसङ्ख्या यथोक्तैव । भङ्गसङ्ख्यानयनोपायस्त्वेवम् - "उभयमुहं रासिदुर्ग, हिडिल्लानंतरेण भय पढमं । लद्धहरासिविभत्ते, तस्सुवरिगुणं तु संजोया" ॥१॥[पञ्च./४०३]
उभयमुखं राशिद्वयम् एकादिस्थापनासंघातद्वयम् , तत्र चाधस्त्यानन्तरेण - अधस्तनराशिपर्यन्तवर्त्यनन्तरेण प्रथमुपरितनराशौ पश्चानुपूर्व्याऽऽदिमं भजेत्-भागं हरेत् , ततो लब्धाधोराशिविभक्ते -अधोराशिना विभक्ते सत्युपरितनराशौ यल्लब्धं तेन तस्योपरि यत् तद्गुणितं तत्संयोगा इति । भावार्थस्तु दर्श्यते । स्थापना -
इह चाधस्त्यराशिपर्यन्तेऽधो एकस्तस्यानन्तरो द्विकस्तेनोपरितन राशिसत्कः प्रथमो दशको भज्यते, तत्र पञ्च लभ्यन्ते, यतो दश द्विधा विभक्ताः पञ्चैव भवन्ति, तेन च पञ्चकेन
१. झुषिरे P.C. नास्ति । शुषिरे हि संज्ञादि व्युत्सृजतो वृश्चिक....इति प्रवचनसारोद्धारटीकायाम् भा० १ प० ५९९ ॥ २. P.C. । एक्कदु मु० । एक्कं दु' इति पञ्चवस्तुके ।।
D:\new/d-3.pm5\3rd proof