________________
स्थण्डिलगमनविधि: - श्लो० ९५ ॥ ]
[ ५६३
पात्रकाणि कल्पयित्वा पुनरेकैकस्य साधोः पतद्ग्रहद्वयं दत्त्वा एतदुक्तं भवति योऽसौ तिष्ठति साधुस्तस्यात्मीय एवैकः पतद्ग्रहो द्वितीयं तु तं योऽसौ चङ्क्रमणभूमिं प्रयाति स दत्त्वा याति, तथा द्वौ द्वौ गच्छतः, नैककः । तत्र च त्रयाणां साधूनामर्थे यावदुदकं भवति तावन्मात्रं तौ गृहीत्वा व्रजतः । पञ्चवस्तुकेऽपि - "कप्पेऊणं पाए, संघाडइलो उ एग दोहं पि ।
पाए धेरे वि बीओ, वच्चइ एवं तु अन्नसमं' ॥१॥ [ प.व./३९६ ]
संघाटकवानेकोऽन्यतरः द्वयोरपि पात्रे धारयति, द्वितीयस्तु संघाटकवान् व्रजति, एवमन्यसंघाटकसाधुसममिति । ते च कथं गच्छन्तीत्याह
—
"अजुगलिआ अतुरंता, विगहारहिआ वयंति पढमं तु ।
निसिइत्तु डगलगहणं, आवडणं वच्चमासज्ज" ॥१॥ [ ओघनि. ३१२, पञ्च.३९८ ]
—
D:\new/d-3.pm5\3rd proof
अयुगलिता इति असम श्रेणिस्था व्रजन्ति, तत्र चङ्क्रमणभुवं प्राप्य प्रथमं निषद्यउपविश्य डगलकानाम् – अधिष्ठानप्रोञ्छनार्थम् इष्टकाखण्डानां लघुपाषाणखण्डानां वा ग्रहणं करोति, ‘आवडणं 'ति प्रस्फोटनं तेषां करोति, जन्तुसम्भवात्, किं प्रमाणमत आह –वर्चं – पुरीषमङ्गीकृत्य श्लथं कठिनं वा तत् ज्ञात्वा तदनुरूपाणि डगलानि गृह्णातीत्यर्थः । ततस्तानि गृहीत्वोत्थाय च स्थण्डिले उपविशति । कीदृश इत्याह" अणावायमसंलोए १, परस्सणुवघाइए २ । समे ३ अज्झसिरे ४ आवि, अचिरकालकयंमि य ५" ॥१॥
[ ओघनि. ३१३, पञ्च. ३९९, प्रव. ७०९ ] अनापातोऽनभ्यागमः असंलोकोऽदर्शनं छन्नत्वात् तदुभयं परस्य यस्मिन् तदनापातासंलोकं स्थण्डिलम्, लोकस्य तस्मिन् आपातश्च तिर्यग्मनुष्यस्वपक्षपरपक्षसंयतसंयतीसंविग्नासंविग्नसमनोज्ञामनोज्ञसंविग्नपाक्षिकासंविग्नपाक्षिकपुंस्त्रीनपुंसकदण्डिककौटुम्बिकशौचाशौचवाद्यादिविषयो बहुविधः, तत्र स्वपक्षसंयतसंविग्नमनोज्ञापातवत गन्तव्यम्, अमनोज्ञापातवति च सामाचारीविपर्यासदर्शनेन शैक्षाणां विपरिणमनभयान्न गन्तव्यम्, संयत्यापातवति तु सर्वथा न गन्तव्यम्, परपक्षशौचवादिनामापाते च प्रचुरद्रवेण पादक्षालनाऽऽचमने कार्ये, प्रत्येकं च सपानकानि पात्रकाणि भवन्तीति यतना कार्या । संलोकश्च तिरश्चां न दोषायान्येषां तु प्राग्वत् । अत्र पदद्वयेन चतुर्भङ्गी भवति, तत्राद्यः शुद्धः । तथाऽनुपघाते उड्डाहादिरहिते, तथा समे – अलुठने, लुठने हि आत्मपतनभयं पुरीषं च मुक्तं
१. धरेइ बिइओ-इति पञ्चवस्तुके ॥