________________
५६२]
[धर्मसंग्रह:-तृतीयोऽधिकारः कह वि हु पमायवसओ, पत्ताबंधो खरंटिओ हुज्जा । पडलाइं अहव कप्पो, कप्पिजसु ताणि जणयाए ॥२॥[य.दि./२५८ ] पढमं लूहिज्जंते, चीवरखंडेण जेण पत्ताणि ।
तं णिच्चं धोविज्जइ, अन्नह कुच्छाइआ दोसा ॥३॥[ य.दि./२५९] ततः किं कर्त्तव्यम् ? इत्याह –'आवश्यिक्या' पूर्वोक्तलक्षणया हेतुभूतया, निष्कारणे साधूनां वसतेर्बहिर्गमनस्याकल्प्यत्वात् , 'बहिर्भूमौ' 'गत्वा' वजित्वा 'स्थण्डिले' विचारभूमौ 'विड्विसर्जनं' पुरीषोत्सर्गः । अत्र स्थण्डिले गच्छतामियं मेरा, तथाहि -संज्ञा, द्विधा–काले अकाले च, तत्र या सूत्रपौरुषीमर्थपौरुषी च कृत्वा कालं च प्रतिक्रम्य जातायां वेलायां भवति सा काले संज्ञा, अथवा या जेमनानन्तरं सा काले, शेषाऽकाले संज्ञा, तत्राकालसंज्ञा प्रथमपौरुष्यां यदि भवति तदाऽसौ साधूनां पृच्छति, यदुत –भवतां किं कश्चिच्चङ्क्रमणभूमि यास्यति न वेति, तथा तरिकारहितमगन्धं चतुर्थरसवच्च जलं चङ्क्रमणदिशोऽन्यया दिशा गृह्णाति येन सागारिकशङ्का न भवति यदुतैते काञ्जिकेन शौचं कुर्वन्तीति । यत ओघनिर्युक्तौ -
"कालमकाले सण्णा, कालो तइआइ सेसयमकालो।
पढमा पोरिसी आपुच्छमा(पा)णगमपुप्फमन्नदिसि" ॥१॥[ओ.नि./३०९] 'अपुप्फ'त्ति तरिकारहितं येन स्वच्छतयोदकभ्रान्तिर्भवतीति, उपलक्षणत्वादगन्धादि च । तथा
"अरेगगहणउग्गाहिएण, आलोअ पुच्छिउं गच्छे ।
एसा उ अकालंमी, अणहिंडिअहिंडिआकालो" ॥२॥[ओ.नि./३१०] अतिरेकपानकं गृह्यते, कदाचिदन्यसाधोः कार्यं भवेत् , सागारिकपुरस्तद्वा उच्छोलनादि क्रियते, तथा उद्ग्राहितेन –पात्रबन्धबद्धेन पात्रकेणानीय गुप्तं सत् आचार्यस्यालोच्यते, तमेव च पृष्ट्वा चङ्क्रमणिकया गच्छन्ति, इयमकाले संज्ञा अहिण्डकानां सतां भवति, कालसंज्ञा पुनहिण्डकानां भिक्षाटनोत्तरकालं जेमनानन्तरं वा या भवतीति । तत्र च गमनविधिरेवम् -
"कप्पेऊणं पाए, एक्केक्कस्स उ दुवे पडिग्गहए।
दाउं दो दो गच्छे, तिण्णट्ठ दवं तु घेत्तूणं" ॥१॥[ओ.नि./३११] १. पाणग' इति ओघनिर्युक्तौ । पाणग त्ति तदनुरुपं पानकमानयति इति तत्रवृत्तौ ॥२. "ण्डितानांइति ओघनियुक्तिवृत्तौ प० ३१० ॥
D:\new/d-3.pm5\3rd proof