________________
भोजनाऽनन्तरकर्त्तव्यम् -श्लो० ९५॥]
[५६१ निस्तुप्पा -अचोप्पडा अवग्घारिता वा । तथा विलेपिका द्विविधा -एका काञ्जिकविलेपिका द्वितीया उदकविलेपिका, पिष्टं-मुद्गादिचूर्णम् , समितम् -अट्टकः उत्स्विन्नंउण्डेरकादि काञ्जिकपत्रं काञ्जिकेन बाष्पितम् अरणिकादिशाकम् , एतदादीन्यलेपकृतानि । अथ लेपकृत्यान्याह - “विगई विगईऽवयवा, अविगइपिंडरसएहिं जं मीसं । गुल-दहि-तिप्पा(ल्ला )वयवे, विगडंमि असेसएसुंच" ॥१॥ [ बृ.क.भा./१७०८]
विकृत्यवयवा –मन्थुप्रभृतयः तैस्तथाऽविकृतिरूपैः पिण्डरसैश्च (यत्) मिश्रं तत् सर्वमपि लेपकृतमिति प्रक्रमः । अथ पिण्डरसपदं व्याख्यानयति - "अंबंबाडकविटे, मुद्दिया माउलिंग कयले य। खज्जूरनालिकेरे, कोले चिंचा य बोधव्वा" ॥१॥ [बृ.क.भा./१७१२]
'कोलो' बदरचूर्णं चिञ्चा-अम्लिका, अन्यान्यपि एवंविधानि पिण्डरसद्रव्याणि ज्ञेयानि] । इति पात्रधावनविधिः, ततोऽपि किं कर्त्तव्यम् ? इत्याह –'पुन'रित्यादि, पुनर्भोजनानन्तरम् , 'चैत्यनमस्क्रिया' चैत्यवन्दनम् , तच्चेर्यापथिकीप्रतिक्रमणपूर्वकशक्रस्तवभणनरूपं ज्ञेयम् ॥९४॥ इदानीं तदनन्तरं यत् करणीयं तदाह -
गुरुवन्दनपूर्वं च, प्रत्याख्यानस्य कारिता ।
आवश्यिक्या बहिर्गत्वा, स्थण्डिले विड्विसर्जनम् ॥१५॥ गुरोर्वन्दनं द्वादशावर्त्तलक्षणं तत्पूर्वं तत्कृत्वेत्यर्थः, 'चः' समुच्चये, 'प्रत्याख्यानस्य' दिवसचरमलक्षणस्य 'कारिता' करणं पूर्ववदन्वयः । यद्यपि प्रागेवैकाशनकं प्रत्याख्यातं तथाप्यप्रमादार्थं भुक्त्वा प्रत्याख्यानं कार्यम् , वन्दनकं च मुखवस्त्रिकाप्रतिलेखनपूर्वं ज्ञेयम् । यतो दिनचर्यायाम् - "विहिणा जेमिअ उट्ठिअ, इरिअं पडिक्कमिअ भणिअ सक्कथयं । पुत्तिं पेहिअ वंदणमिह दाउं कुणइ संवरणं" ॥१॥ [ य.दि./२५६] इति ।
अत्र चायं विशेषस्तदुक्तो ज्ञेयः - "सोहिअ पत्ताबंध, सम्मं निम्मज्जिआणि पत्ताणि । बंधित्तु तेण विहिणा, ठविज्ज जा पडिलेहणासमओ ॥१॥[ य.दि./२५७ ]
१. P. बृहत्कल्पवृत्तौ । तिस्तुप्या-चोखडा अवधारिता च-मु० C. ॥ २. P. बृहत्कल्पवृत्तौ । मुद्गेर मु० C. ॥ ३. P. बृहत्कल्पवृत्तौ । पिण्डरसं व्या० मु० C. ॥ ४. [पडि]लेहणा मु० ॥
D:\new/d-3.pm5\3rd proof