________________
भोजनविधिः, पात्रधावनविधिः -श्लो० ९४॥]
[५५९ "बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ।
पुरिसस्स य महिलाणं, अट्ठावीसं हवे कवला" ॥१॥[पिं.नि./६४२] गोरसभोजने त्वयं विधिस्तत्रैव -
"विदलं जिमिअ पच्छा, मुहं च पत्तं च दो वि धोएज्जा।
अहवा वि अन्नपत्ते, भुंजिज्जा गोरसं णिअमा" ॥१॥[ य.दि./२४६] ततश्चाहारे कवलत्रयप्रमाणावशेषे भक्तविलिप्तपात्राणां संलिहनं कुर्यात् , कृत्वा च तत्पात्रेषु कलुषोदकेन प्रथमकल्पं दत्त्वा पिबति, ततो मुखं प्रमाW द्वितीयकल्पार्थं चाच्छद्रवं ग्रहीत्वा मण्डल्या बहि: पात्रप्रक्षालनार्थं गच्छति । उक्तं च दिनचर्यायाम् -
"पत्ताणं पक्खालणसलिलं पढमं पिबंति निअमेणं ।
सोहंति मुहं तत्तो, बाहिं पत्ताणि धोवंति" ॥१॥[य.दि./२५०] उद्धरिते तु भक्त आचाम्लादितपा गुर्वाज्ञया तावन्मानं तद् भुङ्क्ते परिष्ठापयति वा निरवद्यभूम्याम् , अत्र च विधिगृहीतविधिपरिष्ठापितादिचतुर्भङ्गी ज्ञेयेति ग्रासैषणाविधिः ।
इदानीं भोजनानन्तरं यत् कर्त्तव्यं तदाह –'यतने'त्यादि चः पुनः पात्रशुद्धौ' पात्रप्रक्षालने 'यतना' यत्नशुद्धिः सापेक्षयतिधर्मो भवतीति क्रियान्वयः, तत्र प्रथमकल्पः पूर्वमुक्त एव । द्वितीयं च प्राग्गृहीताच्छोदकेन बहिर्ददाति, तत्र च प्रक्षालनभूमौ सर्वेऽपि मण्डल्याकारेणोपविशन्ति, मध्ये च स्थितोऽच्छद्रवधारी सर्वेषां पात्रप्रक्षालनार्थं द्रवं ददाति ददति च ततस्ते साधवस्तृतीयं कल्पम् , गुरोश्च पात्रं प्रथममेव पृथक् प्रक्षाल्यते, शेषसाधूनां तु प्रथमं यथाकृतं पात्रम् , ततो यथाविशुद्धमिति । तदुक्तं दिनचर्यायाम् -
"गुरुणो पत्तं भिन्न, कप्पिज्ज अहागडं तु सेसेसु ।
पढमं पक्खालिज्जा, जहाविसुद्धं तु सेसाणं" ॥१॥[य.दि./२५२] इति । पात्रप्रक्षालनानन्तरं च द्वयोः द्वयोः साध्वोः पात्रकेषु निर्लेपनार्थमुदकं दत्ते । तदुक्तमोघनिर्युक्तौ
"दाऊण बितिअकप्पं, बहिआ मज्झट्ठिओ उ दवहारी ।
ता दिति तइअकप्पं, दोण्हं दोण्हं तु ओयमणं" ॥१॥[ओ.नि./५८६] इति । इदं च सागारिकाभावे ज्ञेयम् , सति तु तस्मिन् मण्डल्यन्तरेऽपि प्रक्षालयन्तीत्युक्तम् । पञ्चवस्तुके -
१. व तद्यथा- ॥ २. P.C. | जमिअ-मु० । [जिमिउं-यतिदिन० [२६१६] । जिम्मिअयतिदिन० २६२९ ॥ ३. यत्नः-P. संशोधित ॥
D:\new/d-3.pm5\3rd proof