SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ५५८ ] [ धर्मसंग्रहः - तृतीयोऽधिकारः प्रक्षिप्याग्रे भ्राम्यते । बालादिप्रायोग्यं यदुद्धरितं तदसंसृष्टं सत् पतद्ग्रहे क्षिप्त्वाग्रे भ्राम्यते, गुरुसंबन्धि तु संसृष्टमपि मण्डलीपतद्ग्रहे प्रक्षिप्य बालादीनां दीयते, अन्योद्धरितं संसृष्टं तु न मण्डलीपतद्ग्रहे प्रक्षिप्यते इत्यादि ४। शोधिश्च भोजनविषया संयमयात्राधर्मसाधनशरीरधारणाद्यर्थं षट्चत्वारिंशद्दोषरहिताहारग्रहणे भवति । यद्यपि च दोषा द्विचत्वारिंशत् प्रागुक्ता ग्रासैषणायाश्च पञ्चेति सप्तचत्वारिंशद् भवन्ति, तथाप्य कारणरूपसप्तमद्वारे तत्प्रतिपक्षत्वात् कारणाभावलक्षणस्य ग्रासैषणापञ्चमदोषस्य स्वातन्त्र्येण वक्ष्यमाणत्वादुक्तसंख्या न विरोधायेति । ग्रासैषणायाश्च दोषा अमी संयोजना १ प्रमाणातिरिक्तता २ अङ्गारो ३ धूमः ४ कारणाभावश्चेति । यतः " संजोअणा १ पमाणे २, इंगाले ३ धूम ४ कारणे ५ चेव । उवगरण भत्तपाणे, सबाहिरब्धंतरा पढमा" ॥१॥ [ पञ्चा. १३।४८, प्रव. ७३४ ] इति । तत्र लोभाद् द्रव्यस्य मण्डकादेर्द्रव्यान्तरेण खण्डघृतादिना वसतेर्बहिरन्तर्वा योजनं संयोजना १। धृतिबलसंयमयोगा यावता न सीदन्ति तावादाहारप्रमाणम्, अधिकाहारस्तु वमनाय मृत्यवे व्याधये वेति प्रमाणातिरिक्ततादोषः २। स्वाद्वन्नं तद्दातारं वा प्रशंसयन् यद् भुङ्क्ते स रागाग्निना चारित्रेन्धनस्याङ्गारीकरणादङ्गारदोषः ३ । निन्दन् पुनश्चारित्रेन्धनं दहन् धूमकरणाद् धूमदोषः ४। वक्ष्यमाणषड्भोजनकारणाभावे भुञ्जानस्य कारणाभावो दोष: ५। कारणानि च भोजने क्षुद्वेदनाया असहनम् १, क्षामस्य च वैयावृत्त्याकरणम् २, ईर्यासमितेरविशुद्धिः ३, प्रेत्युपेक्षाप्रमार्जनादिलक्षणस्य संयमस्य चापालनम् ४, क्षुधा - तुरस्य प्रबलाग्न्युदयात् प्राणप्रहारशङ्का ५, आर्त्तरौद्रपरिहारेण धर्मध्यानस्थिरीकरणं ६ चेति षट्, यत: - - "वेअण १ वेयावच्चे २, इरिअट्ठाए अ ३ संजमट्ठाए ४ । तह पाणवत्तिआए ५, छट्टं पुण धम्मचिंताए" ॥१॥ [ ओघनि.५८०, पञ्च. ३६५ ] इति । एभिरपि कारणैर्भुञ्जानः साधुरशनादेः षड्भागान् कल्पयति । यतो दिनचर्यायाम् - 'अद्धमसणस्स सव्वंजणस्स, कुज्जा दवस्स दो भाए I वायपविआरणट्ठा, छब्भायं ऊणयं कुणइ " ॥ १ ॥ [ य. दि. / २४४ ] इति । आहारप्रमाणं च पुंसां द्वात्रिंशत्कवलाः, स्त्रीणां चाष्टाविंशतिः । यदाह – 44 १. प्रेक्ष्योप्रेक्षादेः संयमस्य- L. P. । पेहोपेहपमज्जण इत्यादिकं संयमम्-इति ओघनियुक्तिवृत्तौ गा० ५८० । प्रत्युपेक्षणादिकं वा संयमम्-इति पञ्चवस्तुकवृत्तौ गा० ३६७ ।। २. P.C. । प्रबलारत्युदयात्-मु० ॥ ३. कुज्जा - इति यतिदिनचर्यायाम् ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy