________________
भोजनविधिः - श्लो० ९४ ॥ ]
[ ५५७
रत्नाधिकः पूर्वाभिमुख उपविशति, एकश्च मण्डलीस्थविरार्पितदानार्थं अतिरिक्तग्रहणार्थं च गुरोरभिमुखमुपविशति, अन्ये च गुरोराग्नेय्यामैशान्यां वा दिशि, न तु गुरोरभिमुखं पृष्ठतः पार्श्वतश्चोपविशंति, भुञ्जते च गुरोश्चक्षुः पथेनापथ्यादिभक्षणे तेन निवारयितुं शक्यत्वात्, भाजने च विशालमुखे न तु सङ्कटमुखे, तस्मिन् मक्षिकादेरदर्शनात्, एकैकस्य च साधोः पार्श्वे एकं श्लेष्मणोऽपरं च कण्टकास्थ्यादेः क्षेपणार्थमिति मल्लकद्वयं भवति । मण्डल्या बहिश्च सागारिकरक्षणार्थं क्षपणादिस्तिष्ठति, साधूनां प्रच्छन्नमेव भोजनस्यानुमतत्वात्। तदुक्तम् –
"पच्छन्ने भोत्तव्वं, जइणा दाणाउ पडिणिअत्तेणं । तुच्छ्गजाइअदाणे, बंधो इहरा पओसाई" ॥१॥ [ [प.व./३९१ ]
'बंधो त्ति' अनुकम्पया पुण्यबन्धः, सोऽपि नेष्यते, स्वर्णनिगडकल्पत्वादिति १ । भाजनानि च पूर्वं परिकर्मरहितानि भ्राम्यन्ते, ततोऽल्पपरिकर्मबहुपरिकर्माणीति २। भोजनमपि स्निग्धमधुरद्रव्याणां पित्तादिप्रशमनार्थं बुद्धिबलवृद्ध्यर्थं च पूर्वं कार्यम्, पश्चात्करणे तु घृतादिपरिष्ठापनेनासंयमोऽपि, अथ भवेयुः स्निग्धमधुराणि अल्पबहुपरिकर्मसु पात्रेषु तदा तानि पूर्वं भुक्त्वा करौ च प्रोञ्छयित्वाऽपरिकर्माणि पात्राणि समुद्देशनार्थं मुच्यन्ते ३। ग्रहणं चाविकृतवदनः सन् कुक्कुट्यण्डमात्राणां क्षुल्लकलम्बनाशितुल्यानां वा कवलानां करोति, तत्र क्षुल्लकेन लम्बकेनाशितुं शीलमस्य स क्षुल्लकलम्बनाशी तत् तुल्याः लघुकवलाशिनस्तुल्या इत्यर्थः । अत्र च ग्रहणं पात्रादुत्क्षेपणं वदने प्रक्षेपणं चेति द्विविधम्, तत्र पात्रात्कटकच्छेदेन प्रतरच्छेदेन सिंहभक्षितेन वा ग्रहीतव्यम्, अत्रायं वृद्धसम्प्रदाय : – “ कडगच्छेओ णाम जो एगाओ पासओ समुद्दिसइ ताव जाव उव्वट्टो" यथा कलिंजस्य खण्डं छित्त्वाऽपनीयत एवं भुङ्क्त इत्यर्थः । तथा ‘एगयरेणं पयरेणं' एकैकप्रतरच्छेदनेनेत्यर्थः । तथा 'सिहो जत्तो आर तत्तो चेव निट्टवेइ'त्ति । कवलप्रक्षेपणं त्वेवं । यतः -
"असुरसुरं अचवचवं, अदुअमविलंबिअं अपरिसाडि ।
मणवयणकायगुत्तो, भुंजे अह पक्खिवणसोही " ॥१॥[ ओ.नि. २८९, पञ्च. ३६१ ] इति । एवं च भुञ्जानानां यदि पतद्ग्रहो भ्रमन्नेवार्द्धपथे निष्ठितो भवति तदा तस्मिन्नपरं भक्तं
१. तुला- ओघनिर्युक्तिभाष्य गा० २८६, पञ्चवस्तुक गा० ३५८ ॥ २. P. C. । 'लाशि[नर]तुल्या-मु० ॥ ३. तुला - पञ्चवस्तुटीका प० २६० ॥ ४. P. C. ओघनिर्युक्तिटीका । कालिङ्गस्यमु० ॥
D:\new/d-3.pm5\3rd proof