________________
५५६ ]
[ धर्मसंग्रहः - तृतीयोऽधिकारः
अधुना ग्रासैषणाधिकारः, तत्र तावद्रक्षापालेन पात्राण्युद्ग्राह्य स्थेयम्, आगतेषु च हिण्डकेषु आचार्याद्यर्थं नन्दीपात्रे जलं स्वच्छीकार्यं गलनीयं च, गलित्वा च तस्य गच्छानुसारेणैकं द्वौ त्रीणि वा पात्राणि भ्रियन्ते, यतस्तदाचार्यादिबहूपयोगि भवति । उक्तम् च - 'आयरिअअभाविअ - पाणगट्टया पायपोसधुवणट्ठा ।
44
होइ अ सुहं विवेगो सुहआयमणं च सागरिए" ॥१॥ [ ओ.नि./५५६ ]
व्याख्या–आचार्यपानार्थं अभावितशैक्षादिपानार्थं च, तथा पादश्चरण: पोसश्चाधिष्ठानं तयोः क्षालनार्थम्, तथा भवति च सुखेन विवेकस्त्यागोऽतिरिक्तस्य तस्य पानकस्य, सुखेन वाऽऽचमनं सागारिकस्याग्रतः क्रियते, एवमर्थं गलनं क्रियत इति । ततो बालादीनां चित्तमावर्ज्य पृष्ट्वा च गुरुं गीतार्थो रत्नाधिकोऽलुब्धश्चेत्येवंविधो मण्डलीस्थविरः प्रविशति मण्डलीम्, ततश्च वक्ष्यमाणविधिनाऽन्येऽपि साधवः, मण्डली च ग्लानादिनिमित्तं क्रियते, यतस्तेषामेककेन वैयावृत्त्यं कर्त्तुमशक्यम्, क्रियमाणेऽपि वा वैयावृत्त्ये तस्य सूत्रार्थहानिः स्यात्, मण्डल्यां तु बहवः प्रतिजागरका भवन्तीति नोक्तदोषलेशः । तदुक्तमोघनिर्युक्तौ -
"अतरंतबालवुड्ढा, सेहाएसो गुरु असहुवग्गो ।
साधारणोग्गहाऽलद्धिकारणा मण्डली होइ" ॥१॥ [ ओ.नि./ ५५३ ]
अतरन्तो ग्लानः, शैक्षः प्राथमकल्पिकः, 'आएसो' प्राघूर्णकः, 'असहुवग्गो' असमर्थो राजपुत्रादिः, एषां साधारणोपग्रहात् कारणात् मण्डली कर्त्तव्या, तथाऽलब्धिकसाधुनिमित्ता चेति, भोक्तुमुपविष्टश्च साधुः पूर्वं स्वजीवस्यानुशास्ति दत्ते । सा चेत्थम् -
"बायालीसेसणसंकडंमि, गहणंमि जीव ! ण हु छलिओ ।
इण्णि जह ण छलिज्जसि, भुंजंतो रागदोसेहिं" ॥१॥ [ ओ.नि./५४५ ] इति । ततः पञ्चनमस्कारं भणित्वा 'संदिशत पारयाम' इति चाभिधाय गुरुणाऽनुज्ञातः सन् रागद्वेषरहितो व्रणलेपाद्युपमया भुङ्क्ते । अत्र च 'विधिना भोजनक्रिये' त्युक्तत्वादोघनिर्युक्तिगतः सकलोऽपि भोजनविधिः सप्तभिर्द्वारैः प्रदर्श्यते, तद्यथा –
' मण्डलि १ भायण २ भोयण ३, गहणं ४ सोही ५ उ कारणुवरिए ६-७ । वह उसो भणिओ तेलुक्कदंसीहिं' ॥१॥[ ओ.नि./५६६ ] तत्र मण्डली यथारत्नाधिकतया प्रकाशदेशे कार्या, तथाहि - निर्गमप्रवेशौ मुक्त्वा १. C. ओघनि० । मुह मु० ॥ २. C. P. ओघनि० टीका । मुखेन चाचमनं मु० ॥ ३. C. P. ओघनि० । जइ - मु० ॥
D:\new/d-3.pm5\3rd proof