________________
भोजनविधिः – श्लो० ९४ ॥ ]
संयमगाहं'ति “संजमे सुट्ठिअप्पाणं " [ दशवै० ३।१ ] इत्यादि ॥९३॥ अथ तदनन्तरं यत् कर्त्तव्यं तदाह
गुर्वादिच्छन्दनापूर्वं, विधिना भोजनक्रिया ।
यतनापात्रशुद्धौ च पुनश्चैत्यनमस्क्रिया ॥९४॥
गुरुराचार्य आदिशब्दात् प्राघूर्णकादयस्तेषां छन्दना - आनीताहारेण निमन्त्रणा तत्पूर्वं तां कृत्वेत्यर्थः, 'विधिना' वक्ष्यमाणेन 'भोजनक्रिया' भोजनविधानं प्रस्तुतधर्मो भवतीत्यन्वयः । अत्रादौ निमन्त्रणाविधिर्यथा - द्विविधः साधुरेको मण्डल्युपजीवक इतरश्च कारणे केवलभोक्ता । केवलभोजिनश्चामी
[ ५५५
—
"आगाढजोगवाही, निजूढत्तट्ठिआ व पाहुणगा ।
सेहा सपायछित्ता, बाला वुड्ढेवमाईआ" ॥१॥ [ ओ.नि./५४८ ] आगाढयोगवाहिनो गणियोगवाहिनः निर्यूढा अमनोज्ञाः तथाऽऽत्मार्थिका एते पृथक् भुञ्जते, प्राघूर्णकानां तु प्रागेव पर्याप्त्या दीयते, ततस्तेऽप्येकाकिनो भुञ्जते । शैक्षा अनुपस्थापितत्वेन सागारिकाः, सप्रायश्चित्ताः शबलचारित्राः, बालवृद्धास्त्वसहिष्णुत्वात् प्रागेव भुञ्जते, आदिशब्दात् कुष्ठ्यादयः, एते मण्डल्यामसमुद्देशका भवन्ति । यावत् सर्वेऽपि मण्डलीभोक्तारः पिण्डीभवन्ति तावत् प्रतीक्षन्ते, मिलितैश्च तैः सह भुङ्क्ते इदं सहिष्णुमाश्रित्य ज्ञेयम्, असहिष्णोस्तु प्रागुक्तकारणत्रयेण मात्रके प्रक्षिप्य प्रथमालिका दीयते, बहुष्वसहिष्णुषु तु तेभ्यो भक्षणार्थं पतद्ग्रहो मुच्यते इति । मण्डल्यनुपजीवकस्तु गुरुसमीपे गत्वा 'संदिसह भंते ! पाहुणगखवगअतरंतबालवुड्ढसेहाण देह इमं'ति भणति मण्डलीभोक्ताऽपीत्थमेव भणति । यदुक्तम् तयोः - "दुविहो अ सो वि साहू, मंडलिउवजीवओ अ इअरो अ । मंडलि उवजीवंतो, अच्छइ जा पिंडिआ सव्वे ॥१॥ [ ओ.नि./५२२ ] इअरो अ गुरुसगासे, गंतूणं भणड़ संदिसह भंते ! ।
-
11
D:\new/d-3.pm5\3rd proof
पाहुणखवणगअतरंतबालवुड्ढाणाण सेहाणं" ॥२॥ [ ओ.नि./५२३]
संदिसह त्ति ददत, ‘अतरंत'त्ति असमर्थः, एवमुक्तो गुरुस्तदाज्ञया स्वयं वा तेभ्यो दत्ते । अनिच्छतोऽपि निमन्त्रणे विशुद्धपरिणामेन निर्जरैव, वैयावृत्त्यस्य महाफलत्वादिति प्रतिपादिता ग्रहणैषणा ।
१. भणति यदुक्तं - दुविहो - L. P . ॥