________________
५५४]
यतो दिनचर्यायाम्
[ धर्मसंग्रहः - तृतीयोऽधिकारः
"जं किंचि दुरालोइअमणेसणिज्जं भविज्ज भत्ताई ।
तप्पडिकमणनिमित्तं, उस्सग्गं कुणइ इअ विहिणा ॥१॥ [ य. दि. / २३१] इच्छामि पडिक्कमिउं, गोअरचरिआइ एवमाइअं । उच्चरिऊणं सुत्तं काउस्सग्गे विचिंतेइ ॥२॥ [ य. दि. / २३२] अहो जिणेहिं असावज्जा, वित्ती साहूण देसिआ ।
मुक्खसाहणहेउस्स, साहुदेहस्स धारण" ॥३॥ [ य.दि./२३३ ] ओधनिर्युक्तौ - "पंचमंगलं । 'जइ मे अणुग्गहं कुज्जा साहू हुज्जामि तारिओ' [ दशवैकालिके ५ ।१ ।९२]
-
इत्येवमादिगाथाद्वयं वा ध्यायेद् [ ओघनिर्युक्तिटीका प० १७८ A ] इत्युक्तं । तथा च तत्पाठ: -
“ताहे दुरालोइअभत्तपाणएसणमणेसणाए व ।
अट्टुस्सासे अहवा, अणुग्गहादी उ झाएज्जा" ॥१॥[ ओघनि.२७४, पञ्च.३४१ ] ततो नमस्कारेण तं पारयित्वा चतुर्विंशतिस्तवं च पठित्वा भूमिं प्रमृज्य भक्तं पानं च मुञ्चति । ओघनिर्युक्तौ तु स्वाध्यायं प्रस्थाप्यान्तर्मुहूर्त्तं स्वाध्यायं कुर्यादित्युक्तम्, इत्यालोचनाविधिः । ततः किं कर्त्तव्यम् ? इत्याह - 'तत०' इत्यादि, ततः - आलोचनानन्तरं चैत्यवन्दनं प्रसिद्धम्, तदादिर्विधिर्विधानम् अन्वयः प्राग्वत् । अत्रादिशब्दात् पूर्वकृतप्रत्याख्यानपारणाविधिर्गृहीतः, स च प्रसिद्ध एव । यच्च दिनचर्यायां कायोत्सर्गानन्तरम् एव प्रत्याख्यानपारणमुक्तं तत्रापि तच्चैत्यवन्दनपूर्वकमेव ज्ञेयम्, एतच्चैत्यवन्दनसम्बद्धत्वात् प्रत्याख्यानपारणक्रियायाः । यतो भाष्ये सप्तसु तेषु मध्ये इदं जेमनाख्यमित्युक्तम् । तथा च तद्गाथा -
-
"पडिक्कमणे चेइअ जिमण, चरिमपडिकमण सुअण पडिबोहे |
चिइवंदण इअ जइणो, सत्त उ वेला अहोरत्ते" ॥१॥ [ चैत्य. भा. / ५९ ] चैत्यवन्दनानन्तरं च जघन्यतोऽपि षोडशश्लोकप्रमाणं स्वाध्यायं कुर्यादित्युक्तं दिनचर्यायाम् –
"मंचइ भत्तं पाणं, सम्मं जिणनाहवंदणं कुणइ ।
सोलससिलोगमाणं, जहन्नओ कुणइ सज्झायं" ॥१॥ [ य. दि. / २३६ ] इति । पञ्चवस्तुकेत्वेवम् –
" धम्मं कहं णु कुज्जा, संजमगाहं च णिअमओ सव्वे ।
एत्तमेत्तं चन्नं सिद्धं जं जंमि तित्थंमि " ॥ १ ॥ [प.व./३५२ ]
D:\new/d-3.pm5\ 3rd proof