________________
भक्तपानस्य आलोचनाविधिः-श्लो० ९३॥]
[५५३ भिक्षाटनचिन्तकादिभ्यां श्रान्ते ग्लानस्य वेलायामतिक्रामन्त्यां वा ओघेनालोचयेदिति । उक्तं च तत्रैव"काले अपहुप्पंते, उच्चाए वावि ओहमालोए। वेला गिलाणगस्स वि, अइच्छइ गुरू व उव्वाओ" ॥१॥[ओ.नि.५१८, पञ्च.३३५]
'उव्वाओ'त्ति उद्वातः श्रान्त इत्यर्थः, ओघाऽऽलोचना च पुर:कर्मपश्चात्कर्मादि नास्ति आधाकर्मादि च नास्तीत्येवंनिवेदनरूपा, त्वरित कार्ये जाते सति यन्न शुद्धयति तावन्मात्रकथनरूपा वा भवति । यतः - "पुरकम्मपच्छकम्मे, अप्प असुद्धे अ ओहमालोए। तुरिअकरणंमि जं से, न सुज्जई तत्तिअं कहए" ॥१॥[ओ.नि.५१९, पञ्च.३३६] इति ।
अल्पशब्दोऽत्राभावपर इति । एवमेषा मानसी वाचिकी चालोचनोक्ता, कायिकी तु गुरोभिक्षादर्शने भवति, तस्मात् सर्वमेवं मनसा वचसा चालोच्य मुखवस्रिका शिरः सपटलं च पतद्ग्रहं प्रमृज्य उद्यानादौ निवसनादूर्ध्वं पुष्पफलादि गृहकोकिलादि वा अधो निम्नोन्नतादि भूप्रदेशं तिर्यक् च मार्जारादीन् प्रत्युपेक्ष्य पतद्ग्रहं च हस्ते कृत्वाऽ वनतकायो गुरोर्दर्शयति । तदुक्तम् तयोरेव - "आलोइत्ता सव्वं, सीसं सपडिग्गहं पमज्जित्ता । उड्डमहो तिरिअं पि अ, पडिलेहे सव्वओ सव्वं" ॥१॥ काउं पडिग्गहं करयलंमि अद्धं च ओणमित्ताणं । भत्तं वा पाणं वा, पडिदंसेज्जा गुरुसगासे" ॥२॥
[ओघनिर्युक्तौ ५२०, ओघनि.भाष्ये २७३, पञ्चवस्तुके ३३७, ३४०] शीर्षप्रमार्जनं च हस्तस्थे पतद्ग्रहेऽवनमतः शिरसः प्रणिपातसम्भवात् , सपटलपतद्ग्रहप्रमार्जनं च उद्घाट्यमानपात्रबन्धपटलानां सङ्कोचे त्रसादिविनाशभवनादिति । ततोऽनन्तरं नृत्यचलनादिप्रकारेण दुरालोचितभक्तपाननिमित्तम् एषणानेषणयोरनाभोगनिमित्तं वा 'भातपाणी दुरालोइअदुप्पडिक्कंता इच्छाकारेण संदिसह भगवन् ! गोअरचरी पडिक्कमउं? इच्छं इच्छामि पडिक्कमिउं गोओरचरीआए' इत्येवमादिसूत्रं पठित्वा कायोत्सर्गकरोति । तत्र च "अहो जिणेहिं असावज्जा" [ दशवै० ५।९२] इत्येवमादिगाथां ध्यायेत् ।
१. अइगच्छइ-इति पञ्चवस्तुके ॥ २. उच्चाओ-इति ओघनियुक्तिवृत्तौ । उच्चातो-इत तत्रैव वृत्तौ ॥ ३. अप्पेऽसुद्धे ओ.नि.मु. ॥ ४. ऊर्ध्वं पीठी:-इति ओघनि० ॥ ५. प्रतिपात मु० ॥
D:\new/d-3.pm53rd proof