________________
५५२]
[धर्मसंग्रहः-तृतीयोऽधिकारः "काउस्सग्गंमि ठिओ, चिंते समुआणिए अईआरे।
जाणिग्गमप्पवेसे, तत्थ उदोसे मणे कुणइ"॥१॥[ओ.नि./५१२, पञ्च.३२० ] इति । __ चिन्तनं च प्रतिसेवनालोम्येन विकटनानुलोम्येन वा, अत्र पदद्वयेन चतुर्भङ्गी ज्ञेया। एवं सकलदोषांश्चिन्तयित्वा पारयित्वा च नमस्कारेण कायोत्सर्गं पठित्वा च चतुर्विंशतिस्तवं गुरोः पुर आलोचयेत् । तदुक्तम् पञ्चवस्तुके -
"चिंतित्तु जोगमखिलं, नवकारेणं तओ अ पारेत्ता ।
पढिऊण थयं ताहे, साहू आलोअए विहिणा" ॥१॥ [ पञ्च./३२६]
आलोचनायां चायं विधि:-गुरुर्यद्यव्याक्षिप्तादिर्भवति तदाऽऽलोचितगमनागमनः क्षमाश्रमणपूर्वकम् ‘इच्छाकारेण संदिसह भगवन् ! भातपाणी आलोउं' ? इत्युक्त्वा चिन्तितगृहाद्यालोचयेत् । यतः पञ्चवस्तुके -
"कहणाइअव्वक्खित्तं, कोहादुवसतुवट्ठिउवउत्ते ।
संदिसहत्ति अणुण्णं, काऊण विदिन्नआलोए" ॥१॥ [ पञ्च./३३०] न तु व्याक्षिप्तादौ गुरौ । तदुक्तम् – "वक्खित्तपराहुत्ते, पमत्ते मा कया उ आलोए।
आहारं च करेंते, णीहारं वा जइ करेइ" ॥१॥[ओ.नि./५१४, पञ्च./३२७] आहारं कुर्वत आलोचने तच्छ्रवणेनान्तरायनिमित्तं स्यात् , शेषं तु सुयोजम् । आलोचयंश्च नृत्यं चलनं चालनं गृहस्थभाषां मौक्यं ढड्ढरं च वर्जयेत् । कथयति च दात्रीहस्तं मात्रं चोदकार्दादि तच्चेष्टां च यतस्तत्रैव"नट्टं चलं चलं भासं, मूअं तह ढड्वरं च वज्जेज्जा ।
आलोएज्ज सुविहिओ, हत्थं मत्तं च वावारं" ॥१॥[ओ.नि./५१६ ] तत्र नृत्यं करपादभ्रूशिरोऽक्ष्योष्ठादीनां सविकारम् , चलनं हस्तशरीरयोः, चालनं कायेन भावेन च, तत्र कायेन मोटनादि, भावेन च चारुभिक्षागृहनम् , भाषां गृहस्थसम्बन्धिनीम् , संयतभाषयाऽऽलोचयितव्यमित्यर्थः, मौक्यम् अव्यक्तभाषणम् , ढड्डरस्वरं महानिर्घोषमिति । एतद्दोषरहितं गृहीतानुक्रमेणैव सर्वं गुरोरालोचयेदित्येष उत्सर्गत आलोचनाविधिः । अपवादतस्तु कालेऽपर्याप्यमाणे स्वयं गुरौ वा क्रमेण
१. नट्टं चलं च भासं इति पञ्चवस्तुके । नढें वलं चलं भासं-इति ओघनिर्युक्तौ ।। २. 'वलनं हस्तस्य शरीरस्य कुर्वन्नालोचयति, चलनं कायस्य करोति मोटनं तत्कुर्वन्नालोचयति, तथा भावतश्चलनमन्यथा गृहीतमन्यथाऽऽलोचयति अडवियर्ल्ड' । इति ओघनियुक्तिवृत्तौ प० १७७A ||
D:\new/d-3.pm5\3rd proof