________________
भक्तपानशुद्धिविधिः, भिक्षाया आलोचनाविधिः -श्लो० ९३॥]
[५५१ "एवं पडुपन्ने पविसओ उ, तिण्णि उणिसीहिआ हुँति । अग्गद्दारे मज्झे, पवेसणे पायसागरिए" ॥१॥ [ओघनि.भा.२६२, पञ्च.३१२] इति ।
तथाऽञ्जलिं गुरोः पुरस्ताद्धस्तोच्छ्रयं शीर्षनामनम् , वाचा च नमो खमासमणाणमिति करोति, गुरौ भाजने तु हस्तगते शिरसा प्रणामं 'नमः' इति वाचिकनमस्कारं करोति, न तु हस्तोच्छ्रयम् , गुरुभाजनस्य पतनभयादिति । यतः - "हत्थुस्सेहो सीसप्पणामणं वाइओ नमुक्कारो।। गुरुभायणे पणामो, वायाए नमो न उस्सेहो" ॥१॥[ओघनि.भा.२६३, पञ्च.३१३] इति ।
प्रविष्टश्च सति उपरि कुड्यस्थानेऽधश्च भुवि प्रमृज्य दण्डकं स्थापयेत् , चोलपढें चोपधेरुपरि पटलानि च पात्रकोपरि । यतः - "उवरि हेट्ठा य पमज्जिऊण लढेि ठवेज्ज सट्ठाणे । पढें उवहिस्सुवरि, भायणवत्थाणि भाणेसु"॥१॥[ओघनि.भा.२६४, पञ्च. ३१४] इति ।
यदि च कायिकी व्युत्सिसृक्षुस्तदा सपटलकं पात्रमन्यस्य साधोर्दत्त्वा तां व्युत्सृसृजेत् । यतः - "जइ पुण पासवणं से, हवेज्ज तो उग्गहं सपच्छागं ।
दाउं अन्नस्स सचोलपट्टओ काइअं निसिरे" ॥१॥[ओघ.नि.भा.२६५] इत्युक्तः सप्रपञ्चो भिक्षाभ्रमणविधिः । इदानीं वसतिप्रवेशानन्तरं यत्कर्त्तव्यं तदाह - 'आगत्ये 'त्यादि, 'आगत्य' उक्तविधिना वसतिमध्ये प्रविश्य 'आलोचनं' -गुरोः पुरः समुदानिकातिचारप्रकटनम् , सापेक्षयतिधर्मो भवतीति सम्बन्धः, तत्रायं क्रमः - वसतिप्रवेशानन्तरं कायिकी व्युत्सृज्यागतो मण्डलीस्थानं प्रमृज्य तत्रैव स्थाने ईर्यापथिकी प्रतिक्रामति ।* यदुक्तम् दिनचर्यायाम् - "सिज्जामज्झे पविसइ, पडिलेहड़ मंडलीइ जं ठाणं । वच्चइ गुरुस्स पासे, इरियावहियं पडिक्कमइ" ॥१॥ [ य.दि./२२७ ]*
कायोत्सर्गे चाधो जानुनी उपरि च नाभिं चतुर्भिरङ्गलैरप्राप्तं उभयोश्च पार्श्वयोः कूर्पराभ्यां धृतं चोलपढें कुर्यात् , यदा च चोलपट्टः सच्छिद्रो भवति तदा पटलं गृह्णाति, तत्र स्थितश्च वसतिनिर्गमादारभ्य तत्प्रवेशं यावत्सञ्जातातिचारान् गुरोनिवेदनार्थं मनसि करोति । यदुक्तमोघनियुक्ति-पञ्चवस्तुकयो:
१. उवरि-इति ओघनियुक्तिभाष्य-पञ्चवस्तुकयोः ।। २. * * चिह्वद्वयमध्यवर्तीपाठ: C. प्रतौ नास्ति ।
D:\new/d-3.pm5\3rd proof