________________
५५०]
[धर्मसंग्रह:-तृतीयोऽधिकारः "सिज्जं असोहयंतो० २ । वत्थं असोहयंतो० ३। पत्तं असोहयंतो०" ४॥
___[य.दि./२११-२१२-२१३] इदं चोत्सर्गतः सति संस्तरणे ज्ञेयम् , असंस्तरणे तु अशुद्धग्रहणेऽप्यदोषः । यदुक्तम् -
"संथरणमि असुद्धम्" [यतिदिनचर्या २२५] इत्यादि पूर्वमुक्तमेव । अथैवं साधुरुद्गगमोत्पादनैषणाविषयैर्द्विचत्वारिंशद्दोषै रहितां सकलविधिसहितां च पर्याप्तां भिक्षां गृहीत्वा शोधयित्वा च वसतिमागच्छति, आगच्छतः शोधनविधिश्चायम् - वसतिमभिगच्छन् शून्यगृहे देवकुले वा तदभावे च वसतिद्वारेऽपि साधुर्भक्तं पानकं च शोधयति, शोधयित्वा च यत् तत्र भिक्षाग्रहणकालदृष्टं दृष्टं चापि ग्रहणकाले सागरिकभयान्नोज्झितं मक्षिकाकण्टकादि तत् परित्यजति । यदि भक्तं पानकं वा संसक्तं भवेत् तर्हि तत् परिष्ठाप्य पुनरप्यन्यत् गृह्णाति । एवमसौ परिशुद्धे सति भक्ते उपाश्रयं प्रविशति । यदुक्तमोघनिर्युक्तौ -
"सुन्नघरदेउले वा, असई अ उवस्सयस्स वा दारे।
मच्छिगकंटकमाई, सोहेत्तुमुवस्सयं पविसे" ॥१॥[ओ.नि./५०३ ] इति । अन्यभक्तपानग्रहणं च ग्रामे भाजने काले च पर्याप्यमाणे सति करोति । अत्र च पदत्रयनिष्पन्ना अष्टौ भङ्गा भवन्ति, तेषु च काले पर्याप्यमाणे एव ग्रहणम् नान्यथा, तेन शेषभङ्गचतुष्टये भजना, कालश्च जघन्यतः संज्ञां व्युत्सृज्य शौचजलमात्रके शोषिते प्रत्युपेक्षितासु च सप्तविंशतिमण्डलभूमीषु सूर्योऽस्तमेति, अस्तमिते च सूर्ये शेषोपधिप्रत्युपेक्षणमित्येतल्लक्षणः, उत्कर्षतस्तु संज्ञां व्युत्सृज्यागतस्य चरमपौरुषी प्राप्यते इत्येवंस्वरूपः । प्रविशंश्च वसतौ पादप्रमार्जनं नैषेधिकित्रयमञ्जलिं च, प्रविष्टश्च दण्डकोपध्योनिक्षेपे स्थानविशुद्धिं करोति । यदुक्तमोघनिर्युक्तौ -
"पायपमज्जणनिसीहिआ य तिन्नि उ करे पवेसंमी ।
अंजलिठामविसोही, दंडगऊवहिस्स निक्खेवे" ॥१॥ [ ओ.नि./५०९] तत्र नैषेधिकीत्रयम् –अग्रद्वारे मध्ये मूलद्वारप्रवेशे चेति, पादप्रमार्जनं च वसतेबहिरेव सागारिकाभावे करोति, सति तु तस्मिन् वरण्डकमध्ये प्रविश्य, तत्रापि सति मध्यनैषेधिकीस्थाने, तत्रापि च सति मध्ये प्रविश्य करोति, अत एव नैषेधिकीव्याख्यानादनन्तरमेतद्वारं भाष्ये व्याख्यातम् । तथा च तदगाथा -
१. संसत्तकंटगाइ-इति ओघनिर्युक्तौ । मच्छिगकंटगमाई-इति पञ्चवस्तुके गा० ३१० ॥
D:\new/d-3.pm53rd proof