________________
लेपविधिः, भग्नपात्रविधिः – श्लो० ९३ ॥ ]
[ ५४९
द्वितीयश्च तज्जातलेपः, तत्र तज्जातो मलीति प्रसिद्धा । तत्रैव गृहिभाजने जातस्तज्जात इति व्युत्पत्तेः, तल्लेपलिप्तं च सस्नेहपात्रं घट्टकेन घटयित्वा काञ्जिकेन क्षाल तद्विधिः ।
तृतियस्तु युक्तिलेपः, पाषाणादिखण्डनिर्मितः, योजनं युक्तिरिति व्युत्पत्तेः, स च निषिद्धः, सन्निधित्वात् इति त्रिधा लेपः ।
भग्नपात्रस्य बन्धोऽपि त्रिधैव, मुद्रिकानौस्तेनबन्धभेदात्, तत्र मुद्रिकाबन्धो ग्रन्थिबन्धः, नौबन्धः गोमुत्रिकाबन्धः, स्तेनबन्धस्तु काष्ठान्तर्गोप्यदवरकः, स च निषिद्धः । पात्रजर्जरणात् तदुक्तम् –
" तज्जायजुत्तिलेवो, खंजणलेवो अ होइ बोद्धव्वो । मुद्दिअनावाबंधो, तेणयबंधेण पडिकुट्टो " ॥१॥ [ ओ.नि./४०२ ] इति ।
AAA
उत्तममध्यमजघन्यभेदादपि लेपस्त्रिविधः, तेत्र तिलतैलनिष्पन्न उत्कृष्टः, अतसितैलनिष्पन्नो मध्यमः, सर्षपतैलनिष्पन्नश्च जघन्य इति । घृतगुडादिनिष्पन्नस्तु निषिद्धः । [लेपश्च कुट्टिमतलवत् सर्वत्र समः कर्त्तव्यः । तदुक्तं कल्पवृत्तौ -
“कुट्टिमतलसंकासो, भिसिणीपुक्खरपलाससरिसो वा ।
सामासधुवणसुक्कावणा य सुहमेरिसे होइ " ॥१॥ [ तुला- ओ.नि./ ४०६, प.क.भा.गा.१]
,
सामासः–सम्यक् प्रवचनोक्तविधिनाऽऽङिति मर्यादया पात्रकलेपमवधीकृत्य यदसनं—सिक्थाद्यवयवानामपनयनं संलेखनकल्प इत्यर्थः । धावनं कल्पत्रयदानम् शोषणमुद्वानम् ऎते सुखमेव कर्त्तुं शक्यन्ते इति भावः ] इत्युक्ता लेपैषणा । सा च पात्रैषणाऽविनाभाविनीति तस्यामन्तर्भवतीत्युक्ता पिण्डादिचतुष्टयविशुद्धिः, अनयैव च साधुर्गृहीतां दीक्षां निर्वहति नान्यथा । यतः
"पिण्डं असोहयंतो, अचरित्ती इत्थ संसओ नत्थि ।
चारित्तंमि असंते, सव्वा दिक्खा णिरत्थया ॥१॥ [ य. दि. / २१० ]
१. मुद्रिकाबन्धो ग्रन्थिभेदः स्तेनबन्धस्तु - मु० । 'मुद्रिकाबन्धेन ग्रन्थिबन्धेन सीवयति याद्दशो नावि बन्धो भवति तत्सद्दशेन गोमूत्रिकाबन्धेनेत्यर्थः, अन्यः स्तेनकबन्धो' इति ओघनियुक्तिवृत्तौ गा० ४०२ ।। २. तुला-ओघनिर्युक्तिवृत्तिः गा० ४०६ ॥ ३. इति-मु० ॥
D:\new/d-3.pm5\3rd proof