________________
पात्रविशुद्धिः, लेपविधिः -श्लो० ९३॥]
[५४७ संस्थिते –वृत्तचतुरस्त्रे, निव्रणे -नखक्षतादिरहिते । अथालक्षणफलमाह - "हुंडे चरित्तभेदो, सबलंमि अचित्तविब्भमं जाण ।
दुप्पए खीलसंठाणे, गणे चरणे च नो ठाणं" ॥१॥[ओ.नि./६८८] 'सबले'त्ति कबुर ‘दुप्पए'त्ति अधोभागे प्रतिष्ठानरहिते ‘कीलसंठाणे'त्ति कीलकवदुच्चे, एवंविधे च सति गच्छे चारित्रे च नावस्थानं भवति ।
"पउमुप्पले अकुसलं, सव्वणे वणमादिसे ।
अंतो बहिं च दडेमि, मरणं तत्थ निद्दिसे" ॥१॥[ओ.नि./६८९] पात्रस्याधः पद्मोत्पलाकारेऽकुशलं भवति, शेषं सुगमम् । इति पात्रविशुद्धिः । लेपैषणा च पात्रैषणयैव गतार्थेति न पृथगुपदिष्टा । यदुक्तमोघनिर्युक्तौ -
"पायग्गहणंमि अ देसिअंमि, लेवेसणा वि खलु वुत्ता ।
तम्हा उ आणण लिंपणा य पायस्स जयणाए" ॥१॥[ओ.नि./३७५ ] तद्विधिश्चैवम् -
"दुविहा य हुंति पाया, जुन्ना य णवा य जे उ लिप्पंति ।
जुन्ने दाएऊणं, लिंपइ पुच्छा य इअरेसिं" ॥१॥[ओ.नि./३७७] नवानि जीर्णान्यपि च पात्राणि गुरुम् इतरानपि च साधून् पृष्ट्वा लिम्पति, लेपदानं च पूर्वाह्ण कार्य शीघ्रम् यथा शुष्यते । लेपग्रहणं च चीवरगुप्तशरावसम्पुटं कृत्वा कार्यम् । यतः
"पुव्वण्हे लेवदाणं, लेवग्गहणं सुसंवरं काउं।
लेवस्स आणणा लिंपणा य जयणाविहिं वोच्छं" ॥१॥[ओ.नि./३७९] स चायम्-लेपितुमना साधुस्तस्मिन् दिने उपवासं तदशक्तस्तु वासिकभक्तं करोति, ततो लेपार्थं व्रजन् पूर्वं गुरुवन्दनेन गुरुं वन्दते, ततो गुरुणाऽनुज्ञातः सन् भणति, लेपं ग्रहीष्यामि, भवतामप्यस्त्यर्थः ?, एवं शेषानपि साधून् पृच्छति, तैश्च सर्वैर्यथा कार्ये उक्ते उपयोगकार्योत्सर्गं कृत्वा लेपग्रहणाय शरावं लेपाच्छादनाय च रूतं गृह्णाति, यदाऽसौ वस्त्रपात्रैषणायां गीतार्थो भवति, यदि च न कल्पिकस्तदा गीतार्थस्वीकृते ते गृहीत्वा तस्मिंश्छारं प्रक्षिप्य याति, यतो लेपे गृहीते सति चीरमुपरि दत्त्वा लेपस्य ततो रूतं उपरि भूतिं त्रसप्राणरक्षार्थं ददाति । ततो गन्त्रीसमीपे गत्वा तत्प्रभुमनुज्ञाप्य कटुकगन्धज्ञानार्थं घ्राणोपयोगं दत्त्वा खञ्जनं गृह्णाति, कटुकतैलनिष्पन्नश्च लेपोऽस्थिरो
१. लेपो स्थिरो-मु० । 'जइ कडुतेलेण मक्खिओ ताहे न घेप्पइ सो अथिरो होइ' इति ओघनियुक्तिवृत्तौ प० १४० ॥
D:\new/d-3.pm53rd proof