________________
५४६ ]
[ धर्मसंग्रहः - तृतीयोऽधिकारः
एवं शुभाशुभविपाकं विचार्य शुभविपाकं वस्त्रं ग्राह्यम्, तच्च मूल्यतोऽष्टादशरूपकलक्षणान्यूनं ग्राह्यम्। उक्तं च पञ्चकल्पबृहद्भाष्ये -
“ऊणगअट्ठारसगं, वत्थं पुण साहुणो अणुण्णायं ।
इत्तो वइरित्तं पुण, नाणुण्णायं भवे वत्थं ॥१॥ [ प.क.बृ./ २०६६ ] इति ।
देव
असुर देव
मनुष्य राक्षस
देव
असुर
मनुष्य
देव
२
रूपकप्रमाणं च ग्रन्थान्तरादवसेयमिति वस्त्रविशुद्धिः । स्थापना - अथ पात्रविशुद्धिः प्रदर्श्यते – तत्र पात्रमपि तुम्बक - दारुमय-मृन्मयभेदात् त्रिधा कल्प्यम्, तदप्याधाकर्मादिदोषरहितं चेत् । तदुक्तं दिनचर्यायाम् –
"तुंबयदारुअमट्टिअ-पत्तं कम्माइदोसपरिसुद्धं ।
उत्तममज्झजहन्नं, जईण भणियं जिणिदेहिं ॥१॥ [ य.दि./२०४] दारुमयं लाउमयं, अहवा गिहिज्ज मट्टिआमइअं ।
कंसमयं तंबमयं, पत्तं वज्जे अकप्पंति" ॥२॥ [ य. दि. / २०५ ] तदपि लक्षणसंयुक्तं गृह्यते, न त्वलक्षणम् । तथा चोक्तमोघनिर्युक्तौ - [ पायस्स लक्खणमलक्खणं च भुज्जो इमं विआणित्ता । लक्खणजुत्तस्स गुणा, दोसा य अलक्खणस्स इमे ॥ १ ॥ ] [ ओ.नि./६८५ ] वट्टं समचउरंसं, होइ थिरं थावरं च वण्णं च ।
हुंडं वायाइद्धं, भिन्नं च अधारणिज्जाई" ॥२॥ [ ओ.नि./६८६ ]
अत्र पूर्वार्द्धेन सुलक्षणमपरार्द्धेन चालक्षणमुक्तम्, तत्र वृत्तं वर्तुलं तदपि समं सर्वतः सदृक्, तथा स्थिरं सुप्रतिष्ठानं स्थावरं च न परकीयोपस्करवद् यावतिकम्, वर्ण्यं स्निग्धम्, एवंविधं ग्राह्यम्, हुण्डं क्वचिन्निम्नं क्वचिच्चोन्नतम्, ‘वायाइद्धं’ चेति अकालेनैव शुष्कं सङ्कुचितं वलीभृतम्, तथा भिन्नं राजीयुतं सच्छिद्रं वा, एतानि न धार्यन्ते त्यज्यन्त इत्यर्थः । सुलक्षणस्य फलमाह -
" संठिअंमि भवे लाभो, पट्ठा सुपइट्ठिए ।
निव्वणे कित्तिमारोग्गं, वण्णड्डे णाणसंपया" ॥१॥ [ ओ.नि./६८७]
१. तुला-प्रवचनसारोद्धारवृत्तिः भा०२ प० ४८ ॥ २. L.P. C. । स्थापना मु० नास्ति ॥ ३. इतः पूर्वं P. प्रतौ तच्चेदम्-इत्यधिकम् ॥
D:\new/d-3.pm5\3rd proof