________________
वस्त्रविशुद्धिः -श्लो० ९३॥]
[५४५ सीआयवचोराणं, दंसाणं तह य वालमसगाणं ।
रक्खंतो मुणिवसहे, सुरलोगसुहं समज्जिणइ"॥३॥[ ]इति शय्याविशुद्धिः । अथ वस्त्रविशुद्धिरुच्यते, तत्र वस्त्रमेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियावयवनिष्पन्नभेदात् त्रिधा, तत्राद्यं कार्पासादिकम् , द्वितीयं कौशेयादि, तृतीयं तूर्णकादि। एकैकं पुनर्यथाकृताल्पपरिकर्मबहुपरिकर्मभेदात् त्रिधा। तत्र यथाकृतं एकपट्टं सीवनादिपरिकर्मरहितम् , द्वितीयमेकवारं खण्डयित्वा सीवितम् , तृतीयं बहुधा खण्डयित्वा सीवितम् । एषूत्तरोत्तरापेक्षया पूर्वं पूर्वं शुद्धमिति पूर्वपूर्वाभावेऽपरमपरं ग्राह्यम् । तदपि साधुनिमित्तं क्रीतादि न भवति तदा ग्राह्यम् । यदुक्तम् -
"जं न तयट्ठा की, नेअ वुअं जं न गहिअमन्नेसिं ।
आहडपामिच्चं चिअ, कप्पए साहुणा वत्थं" ॥१॥[प्र.सा./८४९] तत्र 'वुअंति अन्तर्भूतण्यर्थत्वात् वायितम् , आहृतं च परग्रामादिभ्यस्तन्न ग्राह्यम् , हट्टादिभ्योऽप्यानीतं यतिभिरदृष्टं यत् तन्न कल्पं(ल्प्यं), दृष्टं तु कल्पते । तथा वस्त्रेऽपि कोटिद्वयं ज्ञेयम् । तत्र -मूलतो यत्यर्थं वायनादिकं वस्त्रस्याविशोधिकोटिः यत्यर्थं प्रक्षालनादि विशोधिकोटिः, एवं च वस्त्रं कल्पनीयं ज्ञातं तदा द्वयोरन्तयोर्गृहीत्वा सर्वतो निरीक्षणीयं प्रान्तबद्धगृहिसत्कमण्यादिसम्भवात् , गृहस्थस्यापि दर्शनीयम् , ततश्च दृष्टे वस्त्रेऽञ्जनखञ्जनलिप्तादिविभागेन शुभाशुभविपाको विचार्यः । तथा चोक्तम् -
"अंजणखंजणकद्दमलित्तो, मूसगभक्खिअ अग्गिदड्डो अ। तुन्निअ कुट्टिअ पज्जव, लीढो होइ विवाग सुहोऽसुहो वा ॥१॥ नवभागकए वत्थे, चउरो कोणा य दुन्नि अंता य । दो कन्नावट्टीओ, मज्झे वत्थस्स एगं तु ॥२॥ चत्तारि देवया भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, एगो पुण जाण रक्खसो ॥३॥ देवसु उत्तमो लाभो, माणुसेसु अ मज्झिमो ।
आसुरेसु अ गेलन्नं, मरणं जाण रक्खसे" ॥४॥ [ बृह.२८३२,२८३१,२८३३,२८३४,नि.भा.५०८७,६०८६,५०८८,५०८९ प्रव.८५०-३]
१. तुला-प्रवचनसारोद्धारवृत्तिः भा० २ प० ९० ॥ २. P. संशो । खण्डित्वा-मु० C.P. मूल ।। ३. । द्वयोस्तयो० मु० C. ॥ ४. [कद्दम]लित्तो-मु० । कद्दमलित्ते-इति प्रवचनसारोद्धारे ।। ५. अग्गिविदड्डे-इति प्रवचनसारोद्वारे ॥ ६. [लीढो]-मु० । लीढे इति प्रवचनसारोद्धारे ।।
D:\new/d-3.pm5\3rd proof